दे॒वास॑स्त्वा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा सं दू॒तं प्र॒त्नमि॑न्धते । विश्वं॒ सो अ॑ग्ने जयति॒ त्वया॒ धनं॒ यस्ते॑ द॒दाश॒ मर्त्यः॑ ॥
devāsas tvā varuṇo mitro aryamā saṁ dūtam pratnam indhate | viśvaṁ so agne jayati tvayā dhanaṁ yas te dadāśa martyaḥ ||
दे॒वासः॑ । त्वा॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । सम् । दू॒तम् । प्र॒त्नम् । इ॒न्ध॒ते॒ । विश्व॑म् । सः । अ॒ग्ने॒ । ज॒य॒ति॒ । त्वया॑ । धन॑म् । यः । ते॒ । द॒दाश॑ । मर्त्यः॑॥
स्वामी दयानन्द सरस्वती
फिर वह दूत कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
धन - विजय
स्वामी दयानन्द सरस्वती
(देवासः) सभ्या विद्वांसः (त्वा) त्वाम् (वरुणः) उत्कृष्टः (मित्रः) मित्रवत्प्राणप्रदः (अर्य्यमा) न्यायकारी (सम्) सम्यगर्थे (दूतम्) यो दुनोति सामादिभिः शत्रूँस्तम्। दुतनिभ्यां दीर्घश्च। उ० ३।८८#। (प्रत्नम्) कारणरूपेणानादिम्। नश्च पुराणे प्राद्वक्तव्याः*। अ० ५।४।३०। इति पुराणार्थे प्रशब्दात्त्नप् प्रत्ययः। (इन्धते) शुभगुणैः प्रकाशन्ते (विश्वम्) सर्वम् (सः) (अग्ने) धर्मविद्या श्रेष्ठगुणैः प्रकाशमानसभापते (जयति) उत्कर्षति (त्वया) (धनम्) विद्यासुवर्णादिकम् (यः) (ते) तव (ददाश) दाशति। अत्र लङर्थे लिट्। (मर्त्त्यः) मनुष्यः ॥४॥#[उ० ३।९०।] *[नैत्यदृशं कञ्चित् सूत्रं वार्त्तिकं वा० विद्यते। अतः ‘प्रगस्य छन्दसि गलोपश्च’ अ० ४।३।२३ अनेन वार्त्तिकेन ‘प्रत्न’ शब्द सिद्धय्ति। सं०]
पुनः स दूतः कीदृश इत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is that ambassador or messenger is taught further.
O President of the Assembly, shining on account of Dharma (righteousness) wisdom and other noble virtues, your messenger who is liberal in giving wealth of all kinds in charity and who conquers enemies with you, whom noble and most acceptable persons, friendly and life-givers to all and just enkindle or instruct, he who pleases you and the people, it is such a true messenger who makes enemies un-easy by adopting peaceful methods that can preserve the State.
