अ॒ग्निना॑ तु॒र्वशं॒ यदुं॑ परा॒वत॑ उ॒ग्रादे॑वं हवामहे । अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सहः॑ ॥
agninā turvaśaṁ yadum parāvata ugrādevaṁ havāmahe | agnir nayan navavāstvam bṛhadrathaṁ turvītiṁ dasyave sahaḥ ||
अ॒ग्निना॑ । तु॒र्वश॑म् । यदु॑म् । प॒रा॒वतः॑ । उ॒ग्रदे॑वम् । ह॒वा॒म॒हे॒ । अ॒ग्निः । न॒य॒त् । नव॑वास्त्वम् । बृ॒हत्र॑थम् । तु॒र्वीति॑म् । दस्य॑वे । सहः॑॥
स्वामी दयानन्द सरस्वती
सब मनुष्य सभाध्यक्ष से मिलके दुष्टों को कैसे मारें, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(अग्निना) अग्निवत्तेजस्विना सभाध्यक्षेण (तुर्वशम्) तुरा शीघ्रतया परपदार्थान् वष्ठि काङ्क्षूति सः। तुर्वशा इतिमनुष्यनामसु पठितम्। निघं० २।३। (यदुम्) इतरधनाय यततेऽसौ यदुर्मनुष्यस्तम्। अत्र यतीप्रयत्न इत्यस्माद्बाहुलकादौणादिक उः प्रत्ययस्तकारस्य दकारः (परावतः) दूरदेशात् (उग्रादेवम्) उग्रान् तीव्र स्वभावान् विजिगीषुम्। अत्रान्येषामपि दृश्यत इति पूर्वपदस्य दीर्घः (हवामहे) योद्धमाह्वयेम (अग्निः) अग्रणीस्सभाध्यक्षः (नयत्) नयतु बन्धनागारे प्रापयतु। अयं लेट्प्रयोगः। (नववास्त्वम्) नवानि नवीनान्यरण्ये निर्मितानि वस्तूनि गृहाणि येन तम् अमिपूर्व “इत्यत्र” वाच्छन्दसि इत्यनुवर्त्तनात् पूर्व# वर्णाभावे यणादेशः (बृहद्रथम्) बृहन्तो रथारमणसाधका यस्य तम् (तुर्वीतिम्) तुर्वतिहिनस्ति यस्तम्। अत्र हिंसार्थात्तुर्वीधातोर्बाहुलकादौणादिकः कर्त्तृकारक ईतिः प्रत्ययः (दस्यवे) स्वबलोत्कर्षेण परपदार्थहर्त्तर्दस्योः। अत्र षष्ठ्यर्थे चतुर्थी (सहः) पराभावुकः ॥१८॥ #[पूर्वसवर्णाभावे।सं०]
सर्वेमनुष्याः सभाध्यक्षेण सह दुष्टान् कथं हन्युरित्युपदिश्यते।