अ॒ग्निर्व॑व्ने सु॒वीर्य॑म॒ग्निः कण्वा॑य॒ सौभ॑गम् । अ॒ग्निः प्राव॑न्मि॒त्रोत मेध्या॑तिथिम॒ग्निः सा॒ता उ॑पस्तु॒तम् ॥
agnir vavne suvīryam agniḥ kaṇvāya saubhagam | agniḥ prāvan mitrota medhyātithim agniḥ sātā upastutam ||
अ॒ग्निः । व॒व्ने॒ । सु॒वीर्य॑म् । अ॒ग्निः । कण्वा॑य । सौभ॑गम् । अ॒ग्निः । प्र । आ॒व॒त् । मि॒त्रा । उ॒त । मेध्य॑अतिथिम् । अ॒ग्निः । सा॒तौ । उ॒प॒स्तु॒तम्॥
स्वामी दयानन्द सरस्वती
फिर भी इन सभाध्यक्षादि राजपुरुषों के गुण अग्नि के दृष्टान्त से अगले मंत्र में कहे हैं।
हरिशरण सिद्धान्तालंकार
सुवीर्य - सौभग - सुरक्षण
स्वामी दयानन्द सरस्वती
(अग्निः) विद्युदिव सभाध्यक्षो राजा (वव्ने) याचते। वनु याचन इत्यस्माल्लडर्थे लिट् वन सम्भक्तावित्यस्माद्वा छन्दसो वर्णलोपो वा इत्यनेनोपधालोपः। (सुवीर्यम्) शोभनं शरीरात्मपराक्रमलक्षणं बलम् (अग्निः) उत्तमैश्वर्यप्रदः (कण्वाय) धर्मात्मने मेधाविने शिल्पिने (सौभगम्) शोभना भगा ऐश्वर्य योगा यस्य तस्य भावस्तम् (अग्निः) सर्वमित्रः (प्र) प्रकृष्टार्थे (आवत्) रक्षति प्रीणाति (मित्रा) मित्राणि। अत्र शेर्लोपः। (उत) अपि (मेध्यातिथिम्) मेध्याः संगमनीयाः पवित्रा अतिथयो यस्य तम् (अग्निः) सर्वाभिरक्षकः (सातौ) संभजन्ते धनानि यस्मिन्नयुद्धे शिल्पकर्मणि वा तस्मिन् (उपस्तुतम्) य उपगतैर्गुणैः स्तूयते तम् ॥१७॥
पुनस्तेषां गुणा अग्नि दृष्टान्तेनोपदिश्यंते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued-
That learned man who is like electricity in the battle, who prays for the admirable strength of the body and the soul and who gives prosperity to a highly intelligent righteous artist, who protects his friends and who like the fire serves the host of the holy guests (Sanyasis etc. ) deserves to be a King.
