ऊ॒र्ध्वो नः॑ पा॒ह्यंह॑सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं॑ दह । कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒रथा॑य जी॒वसे॑ वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ॥
ūrdhvo naḥ pāhy aṁhaso ni ketunā viśvaṁ sam atriṇaṁ daha | kṛdhī na ūrdhvāñ carathāya jīvase vidā deveṣu no duvaḥ ||
ऊ॒र्ध्वः । नः॒ । पा॒हि॒ । अंह॑सः । नि । के॒तुना॑ । विश्व॑म् । सम् । इ॒त्रिण॑म् । द॒ह॒ । कृ॒धि । नः॒ । ऊ॒र्ध्वान् । च॒रथा॑य । जी॒वसे॑ । वि॒दाः । दे॒वेषु॑ । नः॒ । दुवः॑॥
स्वामी दयानन्द सरस्वती
फिर वह सभापति कैसा होवे, यह अगले मंत्र में कहा है।
स्वामी दयानन्द सरस्वती
(ऊर्ध्वः) सर्वोत्कृष्टः (नः) अस्मान् (पाहि) रक्ष (अंहसः) परपदार्थहरणरूपपापात्। अनेर्हुक् च। उ० ४।२२०#। इत्यसुन् प्रत्ययो हुगागमश्च। (नि) नितराम् (केतुना) प्रकृष्टज्ञानदानेन। केतुरिति प्रज्ञानामसु पठितम्। निघं० ३।९। (विश्वम्) सर्वम् (सम्) सम्यगर्थे (अत्रिणम्) अत्ति भक्षयत्यन्यायेन परपदार्थान् यः स शत्रुस्तम् (दह) भस्मी (कृधि) कुरु। अत्रान्येषामपीति संहितायां दीर्घः। (नः) अस्मान् (ऊर्ध्वान्) उत्कृष्टगुणसुखसहितान् (चरथाय) चरणाय (जीवसे) जीवितुम्। जीव धातो स्तुमर्थेऽसे प्रत्ययः (विदाः) लम्भाय*। अत्र लोडर्थे लेट्। (देवेषु) विद्वत्स्वृतुषु वा। ऋतवो वै देवाः। श०। (नः) अस्माकमस्मभ्यं वा (दुवः) परिचर्याम् ॥१४॥ #[उ० ४।२१३। इति वै० यं० मुद्रितद्वितीयावृत्तौ।] *[लम्भय। सं०]
पुनः स कीदृश इत्याह।