यम॒ग्निं मेध्या॑तिथिः॒ कण्व॑ ई॒ध ऋ॒तादधि॑ । तस्य॒ प्रेषो॑ दीदियु॒स्तमि॒मा ऋच॒स्तम॒ग्निं व॑र्धयामसि ॥
yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi | tasya preṣo dīdiyus tam imā ṛcas tam agniṁ vardhayāmasi ||
यम् । अ॒ग्निम् । मेध्य॑अतिथिः । कण्वः॑ । ई॒घे । ऋ॒तात् । अधि॑ । तस्य॑ । प्र । इषः॑ । दी॒दि॒युः॒ । तम् । इ॒माः । ऋचः॑ । तम् । अ॒ग्निम् । व॒र्ध॒या॒म॒सि॒॥
स्वामी दयानन्द सरस्वती
फिर सभाध्यक्षादि लोग अग्नि आदि पदार्थों से कैसे उपकार लेवें, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
मेध्यातिथि
स्वामी दयानन्द सरस्वती
(यम्) (अग्निम्) दाहगुणविशिष्टं सर्वपदार्थछेदकं च (मेध्यातिथिः) पवित्रैः पूजकैः शिष्यवर्गैर्युक्तो विद्वान् (कण्वः) विद्याक्रियाकुशलः (ईधे) दीपयते। अत्र लङर्थे लिट्। इजादेश्चगुरुमतोनृच्छः। अ० ३।१।३६। इत्यमंत्र इतिप्रतिषेधा इदाम्# निषेधः। इन्धिभवतिभ्याञ्च। अ० १।२।६। इतिलिटः कित्त्वाद् अनिदिताम०* इति नलोपोगुणाऽभावश्च। (ऋतात्) मेघमण्डलादुपरिष्टादुदकात् (अधि) उपरिभावे (तस्य) अग्नेः (प्र) प्रकृष्टार्थे (इषः) प्रापिका दीप्तयो रश्मयः (दीदियुः) दीयन्ते दीदयतीति ज्वलतिकर्मसु पठितम्। निघं० १।१६। दीङ्क्षय इत्यस्माद्। व्यत्ययेन परस्मैपदमभ्यासस्य ह्रस्वत्वे वाच्छन्दसि सर्वेविधयो भवन्ती इत्यनभ्यासस्य ह्रस्वः। सायणाचार्येणेदं पदमन्यथा व्याख्यातम् (तम्) यज्ञस्य मुख्यं साधनम् (इमाः) प्रत्यक्षाः (ऋचः) वेदमंत्राः (तम्) विद्युदाख्यम् (अग्निम्) सर्वत्रव्यापकम् (वर्धयामसि) वर्धयामः ॥११॥ #[अमन्त्रे इति पूर्वसूत्रादनुवृत्तौ सत्यामाम् निषेधः, इत्यर्थः। सं०] *[अ० ६।४।२४]
पुनरेतैरग्न्यादिपदार्थाः कथमुपकर्त्तव्याः।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
We, workers of the State and others, extol for the accomplishment of the works of art and industry the fire (in the form of electricity) whom a wise man, expert in knowledge and action and surrounded by pure-minded pupils kindles from the water above the clouds and whose rays pre-eminently shine. These Vedic Mantras describe that Agni variously.
