यं त्वा॑ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन । यं कण्वो॒ मेध्या॑तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ॥
yaṁ tvā devāso manave dadhur iha yajiṣṭhaṁ havyavāhana | yaṁ kaṇvo medhyātithir dhanaspṛtaṁ yaṁ vṛṣā yam upastutaḥ ||
यम् । त्वा॒ । दे॒वासः॑ । मन॑वे । द॒धुः । इ॒ह । यजि॑ष्ठम् । ह॒व्य॒वा॒ह॒न॒ । यम् । कण्वः॑ । मेध्य॑अतिथिः । ध॒न॒स्पृत॑म् । यम् । वृषा॑ । यम् । उ॒प॒स्तु॒तः॥
स्वामी दयानन्द सरस्वती
मनुष्य किस प्रकार के पुरुष को सभाध्यक्ष करें, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(यम्) मननशीलम् (त्वा) त्वाम् (देवासः) विद्वांसः (मनवे) मननयोग्याय राजशासनाय (दधुः) दध्यासुः। अत्र लिङर्थे लिट्। (इह) अस्मिन् संसारे (यजिष्ठम्) अतिशयेन यष्टारम् (हव्यवाहन) हव्यान्यादातु-मर्हाणि वसूनि वहति प्राप्नोति तत्संबुद्धौ सभ्यजन (यम्) शिक्षितम् (कण्वः) मेधावीजनः (मेध्यातिथिः) मेध्यैरतिथिभिर्युक्तोऽध्यापकः (धनस्पृतम्) धनैर्विद्यासुवर्णादिभिः स्पृतः प्रीतः सेवितस्तम् (यम्) सुखस्य वर्षकम् (वृषा) विद्यावर्षकः (यम्) स्तोतुमर्हम् (उपस्तुतः) उपगतः स्तौति स उपस्तुतो विद्वान्। अत्र स्तुधातोर्बाहुलकादौणादिकः क्तः प्रत्ययः ॥१०॥
मनुष्याः कीदृशं सभेशं कुर्य्युरित्याह।