ति॒स्रो द्यावः॑ सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् । आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥
tisro dyāvaḥ savitur dvā upasthām̐ ekā yamasya bhuvane virāṣāṭ | āṇiṁ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat ||
ति॒स्रः । द्यावः॑ । स॒वि॒तुः । द्वौ । उ॒पस्था॑ । एका॑ । य॒मस्य॑ । भुव॑ने । वि॒रा॒षाट् । आ॒णिम् । न । रथ्य॑म् । अ॒मृता॑ । अधि॑ । त॒स्थुः॒ । इ॒ह । ब्र॒वी॒तु॒ । यः । ऊँ॒ इति॑ । तत् । चिके॑तत्॥
स्वामी दयानन्द सरस्वती
फिर भी वायु और सूर्य्य के गुणों का उपदेश अगले मन्त्र में किया है।
स्वामी दयानन्द सरस्वती
(तिस्रः) त्रित्वसंख्याकाः (द्यावः) सूर्याग्निविद्युद्रूपाः (सवितुः) सूर्यलोकस्य (द्वौ) स्वप्रकाशभूगोलौ (उपस्था) उपतिष्ठन्ति यस्मिँस्तत्र। अत्र आङ् याजायारांचोपसंख्यानम्#। इति वार्त्तिकेन ङेः स्थाने आङादेशः। आशेनुनासि० कश्छन्दसि। अ० ६।१।१२६। इति प्रकृतिभावादसंधिः। (एका) विद्युदाख्यदीप्तिः। (यमस्य) वायोः (भुवने) अन्तरिक्षस्थाने (विराषाट्) वीरान् ज्ञानवतः प्राप्तिशीलान् जीवान् सहते सः। अत्र वर्णव्यत्ययेन दीर्घेकारस्यस्थाने ह्रस्वेकारोऽकारस्थान आकारश्च स्फायितंचि० उ० २।१३। इत्यजधातोरक् प्रत्ययः।* छन्दसि सहः। अ० ३।२।६३। इति ण्विः। सहेः साढः सः। अ० ८।३।५६। इति षत्वम् (आणिम्) संग्रामम्। आणाविति संग्रामनामसु पठितम् निघं० २।१७। (न) इव (रथ्यम्) रथान् वहति तम् (अमृता) अमृतानि (अधि) उपरिभावे (तस्थुः) तिष्ठन्ति। अत्र लडर्थे लिट्। (इह) अस्मिन् संसारेऽस्यां विद्यायां वा (ब्रवीतु) उपदिशतु (यः) मनुष्यः (ऊँ) वितर्के (तत्) ज्ञानम् (चिकेतत्) विजानीयात् अयं कितज्ञाने धातोर्लेट् प्रथमैकवचनप्रयोगः। बहुलं छन्दसि इति शपः श्लुः ॥६॥# [अ० ७।२।३९।] * [अजेर्व्यघञपोः। अ० २।४।५६। इत्यजेः स्थाने व्योदेशः। सं०] # [अन्येषामपिदृश्यते। अ० ६।३।१३७ इत्यनेन सं०।]
पुनरपि वायुसूर्य्ययोर्गुणा उपदिश्यन्ते।