त्रिर्नो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम् । ति॒स्रो ना॑सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वातः॒ स्वस॑राणि गच्छतम् ॥
trir no aśvinā yajatā dive-dive pari tridhātu pṛthivīm aśāyatam | tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam ||
त्रिः । नः॒ । अ॒स्वि॒ना॒ । य॒ज॒ता । दि॒वेदि॑वे । परि॑ । त्रि॒धातु॑ । पृ॒थि॒वीम् । अ॒शा॒य॒त॒म् । ति॒स्रः । ना॒स॒त्या॒ । र॒थ्या॒ । प॒रा॒वतः॑ । आ॒त्माइ॑व । वातः॒ । स्वस॑राणि । ग॒च्छ॒त॒म्॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है।
स्वामी दयानन्द सरस्वती
(त्रिः) त्रिवारम् (नः) अस्माकम् (अश्विना) जलाग्नी इव शिल्पिनौ (यजता) यष्टारौ संगन्तारौ। अत्र सर्वत्र सुपां सुलुग् इत्याकारादेशः। (दिवेदिवे) प्रतिदिनम् (परि) सर्वतो भावे (त्रिधातु) सुवर्णरजतादि धातु संपादितम् (पृथिवीम्) भूमिमन्तरिक्षं वा। पृथिवीत्यन्तरिक्षमामसु पठितम्। निघं० १।३। (अशायतम्) शयाताम्। अत्र लोडर्थे लङ्। अशयातामिति प्राप्ते ह्रस्वदीर्घयोर्व्यत्ययासः। (तिस्रः) ऊर्ध्वाधः समगतीः (नासत्या) नविद्यतेऽसत्यंययोस्तौ (रथ्या) यौ रथविमानादिकं यानं वहतस्तौ (परावतः) दूरस्थानानि। परावतः प्रेरितवतः परागताः। निरु० ११।४८। परावत इति दूरनामसु पठितम्। निघं० ३।२६। आत्मेव आत्मनः शीघ्रगमनवत् (वातः) कलाभिर्भ्रामितो वायुः (स्वसराणि) स्व-२ कर्य्यप्रापकाणिदिनानि। स्वसराणीति पदनामसु पठितम्। निघं० ४।२। अनेन प्राप्त्यर्थो गृह्यते (गच्छतम्) ॥७॥
पुनस्तौ कीदृशौ स्त इत्युपदिश्यते।