आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना । प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥
ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā | prāyus tāriṣṭaṁ nī rapāṁsi mṛkṣataṁ sedhataṁ dveṣo bhavataṁ sacābhuvā ||
आ । ना॒स॒त्या॒ । त्रि॒भिः । ए॒का॒द॒शैः । इ॒ह । दे॒वेभिः॑ । या॒त॒म् । म॒धु॒पेय॑म् । अ॒श्वि॒ना॒ । प्र । आयुः॑ । तारि॑ष्टम् । निः । रपां॑सि । मृ॒क्ष॒त॒म् । सेध॑तम् । द्वेषः॑ । भव॑तम् । स॒चा॒भुवा॑॥
स्वामी दयानन्द सरस्वती
फिर उनसे क्या-२ सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है।
स्वामी दयानन्द सरस्वती
(आ) समन्तात् (नासत्या) सत्यगुणस्वभावौ। अत्र सर्वत्र सुपां सुलुग् इत्याकारादेशः। (त्रिभिः) एभिरहोरात्रैः समुद्रस्य पारम् (एकादशैः) एभिरहोरात्रैर्भूगोलान्तम् (इह) यानेषु संप्रयोजितौ (देवेभिः) विद्वद्भिः (यातम्) प्राप्नुतम् (मधुपेयम्) मधुभिर्गुणैर्युक्तं पेयं द्रव्यम् (अश्विना) द्यावापृथिव्यादिकौ द्वौ द्वौ (प्र) प्रकृष्टार्थे (आयुः) जीवनम् (तारिष्टम्) अन्तरिक्षं प्लावयतम् (निः) नितराम् (रपांसि) पापानि दुःखप्रदानि। रपोरप्रमिति पापनामनी भवतः। निरु० ४।२१। (मृक्षतम्) दूरीकुरुतम् (सेधतम्) मंगलं सुखं प्राप्नुतम् (द्वेषः) द्विषतः शत्रून्। अन्येभ्योऽपि दृश्यन्त इति कर्तरि विच्। (भवतम्) (सचाभुवा) यौ सचा समवायं भावयतस्तौ। अत्रान्तर्गतो ण्यर्थः ॥११॥
पुनस्ताभ्यां किं किं साधनीयमित्युपदिश्यते।