परि॒ यदि॑न्द्र॒ रोद॑सी उ॒भे अबु॑भोजीर्महि॒ना वि॒श्वतः॑ सीम् । अम॑न्यमानाँ अ॒भि मन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒ दस्यु॑मिन्द्र ॥
pari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm | amanyamānām̐ abhi manyamānair nir brahmabhir adhamo dasyum indra ||
परि॑ । यत् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अबु॑भोजीः । म॒हि॒ना । वि॒श्वतः॑ । सी॒म् । अम॑न्यमानान् । अ॒भि । मन्य॑मानैः । निः । ब्र॒ह्मभिः॑ । अ॒ध॒मः॒ । दस्यु॑म् । इ॒न्द्र॒॥
स्वामी दयानन्द सरस्वती
फिर अगले मन्त्र में इन्द्र के कृत्य का उपदेश किया है।
स्वामी दयानन्द सरस्वती
(परि) सर्वतो भावे (यत्) यस्मात् (इन्द्र) ऐश्वर्ययोजक राजन् (रोदसी) भूमिप्रकाशौ (उभे) द्वे (अबुभोजीः) आकर्षणेन न्यायेन वा पालयसि पालयति वा। अत्र भुजपालनाभ्यवहारयोर्लडर्थे लङि सिपि बहुलं छन्दसि इति शपः स्थान आदिष्टस्य श्नमः स्थाने श्लुः श्लौ इति द्वित्वम् बहुलं छन्दसि इति इडागमश्च। (महिना) महिम्ना। अत्र छान्दसो वर्णलोपो वा यथेष्कर्त्तारमध्वर इति मलोपः। (विश्वतः) सर्वतः (सीम्) सुखप्राप्तिः। सीमिति पदनामसु पठितम्। निघं० ४।२। अनेन प्राप्त्यर्थो गृह्यते। #सीमिति परिग्रहार्थीयः। निरु० १।७। (अमन्यमानान्) अज्ञानहठाग्रहयुक्तान् सूर्य्यप्रकाशनिरोधकान् मेघावयवान् वा (अभि) आभिमुख्ये (मन्यमानैः) विद्यार्जवयुक्तेर्दुराग्रहरहितैर्मनुष्यैर्ज्ञानसंपादकैः किरणैर्वा (निः) सातत्ये (ब्रह्मभिः) वेदैर्ब्रह्मविद्भिर्ब्राह्मणैर्वा। ब्रह्म हि ब्राह्मणः। शत० ५।१।१।११। (अधमः) शिक्षय अग्निना संयोजयति वा। लोडर्थे लडर्थे वा *लुट्। (दस्युम्) दुष्टकर्मणा सह वर्त्तमानं परद्रोहिणं परस्वहर्तारं चोरं शत्रुं वा (इन्द्र) राज्यैश्वर्ययुक्त सेनाध्यक्ष शूरवीर मनुष्य ॥९॥ #[‘त्व’ इति विनिग्रहार्थीयः’ इति वै० यं० मुद्रित निरुक्ते पाठः।सं०] *[लङ्। सं०]
पुनरिन्द्रस्य कृत्यमुपदिश्यते।