त्वमे॒तान्रु॑द॒तो जक्ष॑त॒श्चायो॑धयो॒ रज॑स इन्द्र पा॒रे । अवा॑दहो दि॒व आ दस्यु॑मु॒च्चा प्र सु॑न्व॒तः स्तु॑व॒तः शंस॑मावः ॥
tvam etān rudato jakṣataś cāyodhayo rajasa indra pāre | avādaho diva ā dasyum uccā pra sunvataḥ stuvataḥ śaṁsam āvaḥ ||
त्वम् । ए॒तान् । रु॒द॒तः । जक्ष॑तः । च॒ । अयो॑धयः । रज॑सः । इ॒न्द्र॒ । पा॒रे । अव॑ । अ॒द॒हः॒ । दि॒वः । आ । दस्यु॑म् । उ॒च्चा । प्र । सु॒न्व॒तः । स्तु॒व॒तः । शंस॑म् । आ॒वः॒॥
स्वामी दयानन्द सरस्वती
फिर अगले मन्त्र में इन्द्रशब्द से शूरवीर के काम का उपदेश किया है।
स्वामी दयानन्द सरस्वती
(त्वम्) युद्धविद्याविचक्षणः (एतान्) परपीड़ाप्रदान् शत्रून् (रुदतः) रोदनं कुर्वतः (जक्षतः) भक्षणसहने# कुर्वतः (च) समुच्चये (अयोधयः) सम्यक् योधय। अत्र लोडर्थे लङ्। (रजसः) पृथिवीलोकस्य। लोका रजांस्युच्यन्ते। निरु० ४।१४। (इन्द्र) राज्यैश्वर्ययुक्त (पारे) परभागे (अव) अर्वागर्थे (अदहः) दह (दिवः) सुशिक्षयेश्वरधर्मशिल्पयुद्धविद्यापरोपकारादिप्रकाशात् (आ) समन्तात् (दस्युम्) बलादन्यायेन परपदार्थहर्त्तारम् (उच्चा) उच्चानि सुखानि कर्माणि वा (प्र) प्रकृष्टार्थे (सुन्वतः) निष्पादयतः (स्तुवतः) गुणस्तुतिं कुर्वतः (शंसम्) शंसंति येन शास्त्रबोधेन तम् (आवः) रक्ष प्राप्नुहि वा ॥७॥ # [हसने। सं०]
पुनरिन्द्रशब्देन शूरवीरकर्त्तव्यमुपदिश्यते।