आवः॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्प्रावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् । श॒फच्यु॑तो रे॒णुर्न॑क्षत॒ द्यामुच्छ्वै॑त्रे॒यो नृ॒षाह्या॑य तस्थौ ॥
āvaḥ kutsam indra yasmiñ cākan prāvo yudhyantaṁ vṛṣabhaṁ daśadyum | śaphacyuto reṇur nakṣata dyām uc chvaitreyo nṛṣāhyāya tasthau ||
आवः॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । प्र । आ॒वः॒ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑द्युम् । श॒फच्यु॑तः । रे॒णुः । न॒क्ष॒त॒ । द्याम् । उत् । श्वै॒त्रे॒यः । नृ॒सह्या॑य । त॒स्थौ॒॥
स्वामी दयानन्द सरस्वती
फिर अगले मन्त्र में इन्द्र के कृत्य का उपदेश किया है।
स्वामी दयानन्द सरस्वती
(आवः) रक्षेत्। अत्र लिङर्थे लङ्#। (कुत्सम्) वज्रम्। कुत्स इति वज्रनामसु पठितम्। निघं० २।२०। सायणाचार्येणात्र भ्रांत्या कुत्सगोत्रोत्पन्नऋषिर्गृहीतोऽसंभवादिदं व्याख्यानमयुद्धम् (इन्द्र) सुशील सभाध्यक्ष (यस्मिन्) युद्धे (चाकन्) चंकन्यते काम्यत इति चाकन्। कनी दीप्तिकांतिगतिषु। इत्यस्य यङ्लुगन्तस्य क्विवन्तं रूपम्। वाच्छन्दसि सर्वे विधयो भवन्ति इति नुगभावः। दीर्घोऽ*कित इत्यभ्यासस्य दीर्घत्वं च। सायणाचार्येणेदं भ्रमतो मित्संज्ञकस्य ण्यन्तस्य च कनीधातो रूपमशुद्धं व्याख्यातम् (प्र) प्रकृष्टार्थे (आवः) प्राणिनः सुखे प्रवेशयेत्। अत्र लिङर्थे लङ्। (युध्यन्तम्) युद्धेप्रवर्त्तमानम् (वृषभम्) प्रबलं (दशद्युम्) दशसु दिक्षु द्योतते तम् (शफच्युतः) शफेषु गवादिखुरचिन्हेषु च्युतः पतित आसिक्तो यः सः (रेणुः) धूलिः (नक्षत) प्राप्नोति। अत्र अडभावो व्यत्ययेनात्मनेपदम्। णक्षगताविति प्राप्त्यर्थस्य रूपम् (द्याम्) प्रकाशसमूहं द्युलोकम् (उत्) उत्कृष्टार्थे (श्वैत्रेयः) श्वित्राया आवर्णकर्त्र्या भूमेरपत्यं श्वैत्रेयः (नृसाह्याय) नॄणां सहायाय। अत्रान्येषामपि इति दीर्घः। (तस्थौ) तिष्ठेत्। अत्र लिङर्थे लिट् ॥१४॥ #[लुङ्।सं०] *[अ० ७।४।८३।]
पुनरिन्द्रकृत्यमुपदिश्यते।