अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अ॒स्याव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम् । स॒ध्री॒चीने॑न॒ मन॑सा॒ तमिन्द्र॒ ओजि॑ष्ठेन॒ हन्म॑नाहन्न॒भि द्यून् ॥
anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām | sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn ||
अनु॑ । स्व॒धाम् । अ॒क्ष॒र॒न् । आपः॑ । अ॒स्य॒ । अव॑र्धत । मध्ये॑ । आ । ना॒व्या॑नाम् । स॒ध्री॒चीने॑न । मन॑सा । तम् । इन्द्रः॑ । ओजि॑ष्ठेन । हन्म॑ना । अ॒ह॒न् । अ॒भि । द्यून्॥
स्वामी दयानन्द सरस्वती
फिर अगले मन्त्र में इन्द्र के कर्मों का उपदेश किया है।
स्वामी दयानन्द सरस्वती
(अनु) वीप्सायाम् (स्वधाम्) अन्नमन्नं प्रति (अक्षरन्) संचलन्ति। अत्र सर्वत्र लडर्थे लङ्। (आपः) जलानि (अस्य) सूर्यस्य (अवर्धत) वर्धते (मध्ये) (आ) समन्तात् (नाव्यानाम्) नावा तार्य्याणां नदी तड़ागसमुद्राणां नौ वयो धर्म० इत्यादिना #यत्। (सध्रीचीनेन) सहांचति गच्छति तत्सध्र्यङ् सध्र्यङ् एव सध्रीचीनं तेन। सहस्य सध्रिः। अ० ६।३।९५। अनेन सध्र्यादेशः। विभाषांचिरदिक् स्त्रियाम्। *अ० ६।३।१३८। इति ¤दीर्घत्वम्। (मनसा) मनोवद्वेगेन (तम्) वृत्रम् (इन्द्रः) विद्युत् (ओजिष्ठेन) ओजो बलं तदतिशयितं तेन। ओज इति बलनामसु पठितम्। निघं० २।९। (हन्मना) हन्ति येन तेन। अत्र कृतो बहुलमिति। अन्येभ्योपि दृश्यंत इति करणे मनिन् प्रत्ययः। न संयोगाद्वमन्तात्। अ० ६।४।१३७। इत्यल्लोपो न। (अहन्) हन्ति (अभि) आभिमुख्ये (द्यून्) दीप्तान् दिवसान् ॥११॥ #[अ० ४।४।९१।] *[अ० ५।४।८।] ¤[इत्यनेन खः प्रत्ययः, ‘चौ’ अ० ६।३।१३८ इत्यनेन च दीर्घत्वम्। सं०]
पुनस्तस्येन्द्रस्य कृत्यमुपदिश्यते।