यदि॒न्द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑नाः॒ प्रोत मा॒याः । आत्सूर्यं॑ ज॒नय॒न्द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से ॥
yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ | āt sūryaṁ janayan dyām uṣāsaṁ tādītnā śatruṁ na kilā vivitse ||
यत् । इ॒न्द्र॒ । अह॑न् । प्र॒थ॒म॒जाम् । अही॑नाम् । आत् । मा॒यिना॑म् । अमि॑नाः । प्र । उ॒त । मा॒याः । आत् । सूर्य॑म् । ज॒नय॑न् । द्याम् । उ॒षास॑म् । ता॒दीत्ना॑ । शत्रु॑म् । न । किला॑ । वि॒वि॒त्से॒॥
स्वामी दयानन्द सरस्वती
फिर वह किस प्रकार का है, इस विषय का उपदेश अगले मन्त्र में किया है।
स्वामी दयानन्द सरस्वती
(यत्) यम्। सुपाम० इत्यमो लुक्। (इन्द्र) पदार्थविदारयितः सूर्यलोकसदृश (अहन्) जहि (प्रथमजाम्) सृष्टिकालयुगपदुत्पन्नं मेघम् (अहीनाम्) सर्पस्येव मेघावयवानाम् (आत्) अनन्तरम् (मायिनाम्) येषां मायानिर्माणं धनाकारं सूर्यप्रकाशाच्छादकं वा बहुविधं कर्म विद्यते तेषाम्। अत्र भृम्न्यर्थइनिः। (अमिनाः) निवारयेद्वा मीनातेर्निगमे। अ० ७।३।८१। इति ह्रस्वादेशश्च। (प्र) प्रकृष्टार्थे (उत) अपि (मायाः) अन्धकाराद्या इव (आत्) अद्भुते (सूर्य्यम्) किरणसमूहम् (जनयन्) प्रकटयन् सन् (द्याम्) प्रकाशमयं दिनम् (उषसम्) प्रातःसमयम्। अत्र वर्णव्यत्येन दीर्घत्वम्। (तादीत्ना) तदानीम्। अत्र पृषोदरादीनियथोपदिष्टम्। अ० ६।३।१०९। अनेन वर्णविपर्यासेनाकारस्थान ईकार ईकारस्थान आकारस्तुडागमः पूर्वस्यदीर्घश्च। (शत्रुम्) वैरिणम् (न) इव (किल) निश्चयार्थे। अत्र निपातस्यच इति दीर्घः। (विवित्से) अत्र व्यत्ययेनात्मनेपदम् ॥४॥
पुनः स कीदृश इत्युपदिश्यते।