अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष । वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥
ahann ahim parvate śiśriyāṇaṁ tvaṣṭāsmai vajraṁ svaryaṁ tatakṣa | vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ ||
अह॑न् । अहि॑म् । पर्व॑ते । शि॒श्रि॒या॒णम् । त्वष्टा॑ । अ॒स्मै॒ । वज्र॑म् । स्व॒र्य॑म् । त॒त॒क्ष॒ । वा॒श्राःइ॑व । धे॒नवः॑ । स्यन्द॑मानाः । अञ्जः॑ । स॒मु॒द्रम् । अव॑ । ज॒ग्मुः॒ । आपः॑॥
स्वामी दयानन्द सरस्वती
फिर वह सूर्य्य तथा सभापति क्या करता है। इस विषय का उपदेश अगले मन्त्र में किया है।
स्वामी दयानन्द सरस्वती
(अहन्) हतवान् हन्ति हनिष्यति वा (अहिम्) मेघमिवशत्रुम् (पर्वते) मेघमण्डले इव गिरौ। पर्वत इति मेघनामसु पठितम्। निघं० १।१०। (शिश्रियाणम्) विविधाश्रयम्। (त्वष्टा) स्वकिरणैः छेदनसूक्ष्मकर्त्ता स्वतेजोभिःशचुविदारको वा। (अस्मै) मेघाय दुष्टाय वा (वज्रम्) छेदनस्वभावं किरणसमूहं शस्त्रवृन्दं वा (स्वर्यम्) स्वरे गर्जने वाचि वा साधुस्तम्। स्वर इति वाङ्नामसु पठितम्। निघं० १।११। इदं पदं सायणाचार्येण मिथ्यैव व्याख्यातम्। (ततक्ष) छिनत्ति। (वाश्रा इव) वत्सप्राप्तिमुत्कंठिताःशब्दायमाना इव (धेनवः) गावः। (स्यन्दमानाः) प्रस्रवन्त्यः (अञ्जः) व्यक्तागमनशीला वा। अञ्जूव्यक्तिकरण इत्यस्य प्रयोगः। (समुद्रम्) जलेन पूर्णं सागरमन्तरिक्षं वा (अव) नीचार्थे (जग्मुः) गच्छन्ति (आपः) जलानि शत्रुप्राणा वा ॥२॥
पुनः स किं करोतीत्युपदिश्यते।