नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च । इन्द्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये ॥
nāsmai vidyun na tanyatuḥ siṣedha na yām miham akirad dhrāduniṁ ca | indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye ||
न । अ॒स्मै॒ । वि॒द्युत् । न । त॒न्य॒तुः । सि॒से॒ध॒ । न । याम् । मिह॑म् । अकि॑रत् । ह्रा॒दुनि॑म् । च॒ । इन्द्रः॑ । च॒ । यत् । यु॒यु॒धाते॒ इति॑ । अहिः॑ । च॒ । उ॒त । अ॒प॒रीभ्यः॑ । म॒घवा॑ । वि । जि॒ग्ये॒॥
स्वामी दयानन्द सरस्वती
इन दोनों के इस युद्ध में किस का विजय होता है, इस विषय का उपदेश अगले मन्त्र में किया है।
स्वामी दयानन्द सरस्वती
(न) निषेधार्थे (अस्मै) इन्द्राय सूर्यलोकाय (विद्युत्) प्रयुक्ता स्तनयित्नुः (न) निषेधे (तन्यतुः) गर्जनसहिता (सिषेध) निवारयति। अत्र सर्वत्र लडर्थे लङलिटौ। (न) निवारणे (याम्) वक्ष्यमाणाम् (मिहम्) मेहति सिंचति यया वृष्ट्या ताम्। (अकिरत्) किरति विक्षिपति। (ह्रादुनिम्) ह्रादतेऽव्यक्ताञ् शब्दान् करोति यया वृष्ट्याताम्। अत्र ह्रादधातोर्बाहुलकादौणादिक उनिः प्रत्ययः। (च) समुच्चये (इन्द्रः) सूर्यः (च) पुनरर्थे (यत्) यः। अत्रापि सुपांसु० इति सोर्लुक्। (युयुधाते) युध्येते (अहिः) मेघः (च) अन्योन्यार्थे (उत्) अपि (अपरीभ्यः) अपूर्णाभ्यः सेनाक्रियाभ्यः। अत्र पॄधातोः। अत्र इः। उ० ४।१४४। #अनेन इः प्रत्ययः। कृदिकारादक्तिनः। अ० ४।१।४५। अनेन* ङीष् प्रत्ययः। इदं पदं सायणाचार्येणाप्रमाणादपराभ्य इत्यशुद्धं व्याख्यातम्। (मघवा) मघं पूज्यं बहुविधं प्रकाशो धनं विद्यते यस्मिन् सः। अत्र भूम्न्यर्थे मतुप्। (वि) विशेषार्थे (जिग्ये) जयति ॥१३॥ # [‘१३९’ वै० यं० मुद्रित द्वितीयावृत्तावेषा संख्या वर्तते। सं०] *[ सूत्रस्थनियमेन। सं०]
एतयोरस्मिन् युद्धे कस्य विजयो भवतीत्युपदिश्यते।