दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आपः॑ प॒णिने॑व॒ गावः॑ । अ॒पां बिल॒मपि॑हितं॒ यदासी॑द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार ॥
dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ | apām bilam apihitaṁ yad āsīd vṛtraṁ jaghanvām̐ apa tad vavāra ||
दा॒सप॑त्नीः॒ । अहि॑गोपाः । अ॒ति॒ष्ठ॒न् । निरु॑द्धाः । आपः॑ । प॒णिना॑इव । गावः॑ । अ॒पाम् । बिल॑म् । अपि॑हितम् । यत् । आसी॑त् । वृ॒त्रम् । ज॒घ॒न्वान् । अप॑ । तत् । व॒वा॒र॒॥
स्वामी दयानन्द सरस्वती
फिर सूर्य उस मेघ के प्रति क्या करता है, इस विषय का उपदेश अगले मन्त्र में किया है।
स्वामी दयानन्द सरस्वती
(दासपत्नीः) दास आश्रयदाता पतिर्यासां ताः। अत्र सुपांसुलुग इति पूर्वसवर्णादेशः। (अहिगोपाः) अहिना मेघेन गोपा गुप्ता अच्छादिताः (अतिष्ठन्) तिष्ठन्ति। अत्र वर्त्तमाने लङ्। (निरुद्धाः) संरोधं प्रापिताः (आपः) जलानि (पणिनेव) गोपालेन वणिग्जनेनेव (गावः) पशवः (अपाम्) जलानाम् (विलम्) गर्त्तम् (अपिहितम्) आच्छादितम् (यत्) पूर्वोक्तम् (आसीत्) अस्ति। अत्र वर्त्तमाने लङ्। (वृत्रम्) सूर्यप्रकाशावरकं मेघम् (जघन्वान्) हन्ति। अत्र वर्त्तमाने लिट्। (अप) दूरीकरणे (तत्) द्वारम् (ववार) वृणोत्युद्घाटयति। अत्र वर्त्तमाने लिट् यास्कमुनिरिमं मंत्रमेवं व्याचष्टे दासपत्नीर्दासाधिपत्न्यो दासो दस्यते रूपं *दासयति कर्म्माण्यहिगोपा अतिष्ठन्नहिना गुप्ताः। अहिरवनादेत्यन्तरिक्षे ऽयमपीतरोऽहिरेतस्मादेव निर्ह्वसितोपसर्ग आहंतीति। निरुद्धा आपः पणिनेव गावः। पणिर्वणिग्भवति पणिः पणनाद्वणिक् पण्यं नेनेक्ति। अपां बिलमपिहितं यदासीत्। बिलं भरं भवति बिभर्त्तेवृत्रं जघ्निवानपववार। निरु० २।१७। ॥११॥ *[वै० यं० निरुक्ते ‘रूपदासयतीति’ पाठो वर्तते।सं०]
पुनः सूर्यस्तं प्रति किं करोतीत्युपदिश्यते।