त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वन्द्य। त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥
tvaṁ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya | trātā tokasya tanaye gavām asy animeṣaṁ rakṣamāṇas tava vrate ||
त्वम्। नः॒। अ॒ग्ने॒। तव॑। दे॒व॒। पा॒युऽभिः॑। म॒घोनः॑। र॒क्ष॒। त॒न्वः॑। च॒। व॒न्द्य॒। त्रा॒ता। तो॒कस्य॑। तन॑ये। गवा॑म्। अ॒सि॒। अनि॑ऽमेषम्। रक्ष॑माणः। तव॑। व्र॒ते ॥
स्वामी दयानन्द सरस्वती
अगले मन्त्र में भी सभापति का उपदेश किया है ॥
स्वामी दयानन्द सरस्वती
पुनः स एवोपदिश्यते ॥
हे देव वन्द्याग्ने सभेश्वर ! तव व्रते वर्त्तमानान् मघोनो नोऽस्मान् अस्माकं वा तन्वस्तनूँश्च पायुभिस्त्वमनिमेषं रक्ष तथा रक्षमाणस्त्वं तव व्रते वर्त्तमानस्य तोकस्य गवामस्य संसारस्य चानिमेषं च तनये त्राता भव ॥ १२ ॥