कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति। त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥
kṛṣṇaṁ niyānaṁ harayaḥ suparṇā apo vasānā divam ut patanti | ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate ||
कृ॒ष्णम्। नि॒ऽयान॑म्। हर॑यः। सु॒ऽप॒र्णाः। अ॒पः। वसा॑नाः। दिव॑म्। उत्। प॒त॒न्ति॒। ते। आ। अ॒व॒वृ॒त्र॒न्। सद॑नात्। ऋ॒तस्य॑। आत्। इत्। घृ॒तेन॑। पृ॒थि॒वी। वि। उ॒द्य॒ते॒ ॥ १.१६४.४७
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे मनुष्या अपो वसाना हरयः सुपर्णाः कृष्णं नियानं दिवमुत्पतन्ति ते सूर्यमाववृत्रन्नृतस्य सदनात्प्राप्तेन घृतेन पृथिवी व्युद्यते तमादिद्यथावद्विजानीत ॥ ४७ ॥