च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिण॑:। गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति ॥
catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ | guhā trīṇi nihitā neṅgayanti turīyaṁ vāco manuṣyā vadanti ||
च॒त्वारि॑। वाक्। परि॑ऽमिता। प॒दानि॑। तानि॑। विदुः। ब्रा॒ह्म॒णाः। ये। म॒नी॒षिणः॑। गुहा॑। त्रीणि॑। निऽहि॑ता। न। इ॒ङ्ग॒य॒न्ति॒। तु॒रीय॑म्। वा॒चः। म॒नु॒ष्याः॑। व॒द॒न्ति॒ ॥ १.१६४.४५
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
ये मनीषिणो ब्राह्मणा वाक् परिमिता यानि चत्वारि पदानि तानि विदुः। तेषां गुहा त्रीणि निहिता सन्ति नेङ्गयन्ति ते मनुष्याः सन्ति ते वाचस्तुरीयं वदन्ति ॥ ४५ ॥