यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति। मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥
yat te gātrād agninā pacyamānād abhi śūlaṁ nihatasyāvadhāvati | mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu ||
यत्। ते॒। गात्रा॑त्। अ॒ग्निना॑। प॒च्यमा॑नात्। अ॒भि। शूल॑म्। निऽह॑तस्य। अ॒व॒ऽधाव॑ति। मा। तत्। भूम्या॑म्। आ। श्रि॒ष॒त्। मा। तृणे॑षु। दे॒वेभ्यः॑। तत्। उ॒शत्ऽभ्यः॑। रा॒तम्। अ॒स्तु॒ ॥ १.१६२.११
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे विद्वन्निहतस्य ते तवाग्निना पच्यमानाद्गात्राद्यदभिशूलमवधावति तद्भूम्यां माऽऽश्रिषत्तत्तृणेषु माऽऽश्लिष्येत्किन्तूशद्भ्यो देवेभ्यो रातं स्याद्दत्तमस्तु ॥ ११ ॥