प्र यत्पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो॑ वी॒रुधो॒ दंसु॑ रोहति। उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो अभवद्घृ॒णा शुचि॑: ॥
pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṁsu rohati | ubhā yad asya januṣaṁ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ ||
प्र। यत्। पि॒तुः। प॒र॒मात्। नी॒यते॑। परि॑। आ। पृ॒क्षुधः॑। वी॒रुधः॑। दम्ऽसु॑। रो॒ह॒ति॒। उ॒भा। यत्। अ॒स्य॒। ज॒नुष॑म्। यत्। इन्व॑तः। आत्। इत्। यवि॑ष्ठः। अ॒भ॒व॒त्। घृ॒णा। शुचिः॑ ॥ १.१४१.४
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
पुरुषेण परमात् यदस्य पितुः प्रणीयते यो दंसु पृक्षुधो वीरुधः पर्य्यारोहत्यादिन्वतो यज्जनुषमभवत् यद्यः शुचिर्घृणाऽभवत् तावुभा इदेव यविष्ठो जनः प्राप्नुयात् ॥ ४ ॥