कृ॒ष्ण॒प्रुतौ॑ वेवि॒जे अ॑स्य स॒क्षिता॑ उ॒भा त॑रेते अ॒भि मा॒तरा॒ शिशु॑म्। प्रा॒चाजि॑ह्वं ध्व॒सय॑न्तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ॥
kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum | prācājihvaṁ dhvasayantaṁ tṛṣucyutam ā sācyaṁ kupayaṁ vardhanam pituḥ ||
कृ॒ष्ण॒ऽप्रुतौ॑। वे॒वि॒जे इति॑। अ॒स्य॒। स॒ऽक्षितौ॑। उ॒भा। त॒रे॒ते॒ इति॑। अ॒भि। मा॒तरा॑। शिशु॑म्। प्रा॒चाऽजि॑ह्वम्। ध्व॒सय॑न्तम्। तृ॒षु॒ऽच्युत॑म्। आ। साच्य॑म्। कुप॑यम्। वर्ध॑नम्। पि॒तुः ॥ १.१४०.३
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
यं प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमासाच्यं कुपयं पितुर्वर्द्धनं शिशुं सक्षितौ मातराभितरेते अस्य तावुभा मातरा कृष्णप्रुतौ वेविजे ॥ ३ ॥