तत्तु प्रय॑: प्र॒त्नथा॑ ते शुशुक्व॒नं यस्मि॑न्य॒ज्ञे वार॒मकृ॑ण्वत॒ क्षय॑मृ॒तस्य॒ वार॑सि॒ क्षय॑म्। वि तद्वो॑चे॒रध॑ द्वि॒तान्तः प॑श्यन्ति र॒श्मिभि॑:। स घा॑ विदे॒ अन्विन्द्रो॑ ग॒वेष॑णो बन्धु॒क्षिद्भ्यो॑ ग॒वेष॑णः ॥
tat tu prayaḥ pratnathā te śuśukvanaṁ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam | vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ | sa ghā vide anv indro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ ||
तत्। तु। प्रयः॑। प्र॒त्नऽथा॑। ते॒। शु॒शु॒क्व॒नम्। यस्मि॑न्। य॒ज्ञे। वार॑म्। अकृ॑ण्वत। क्षय॑म्। ऋ॒तस्य॑। वाः। अ॒सि॒। क्षय॑म्। वि। तत्। वो॒चेः॒। अध॑। द्वि॒ता। अ॒न्तरिति॑। प॒श्य॒न्ति॒। र॒श्मिऽभिः॑। सः। घ॒। वि॒दे॒। अनु॑। इन्द्रः॑। गो॒ऽएष॑णः। ब॒न्धु॒क्षित्ऽभ्यः॑। गो॒ऽएष॑णः ॥ १.१३२.३
स्वामी दयानन्द सरस्वती
फिर मनुष्य क्या करके कैसे हों, इस विषय को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः किं कृत्वा कीदृशा भवेयुरित्याह ।
हे विद्वान् गवेषण इन्द्र इव ते तव प्रत्नथा यस्मिन् यज्ञ ऋतस्य शुशुक्वनं क्षयं वारं वाः क्षयमिव ये प्रयोऽकृण्वत तेषां तत्तु त्वं प्राप्तोऽसि। अधाथ द्विता रश्मिभिरन्तर्यत् पश्यन्ति तत्त्वं विवोचेः स बन्धुक्षिद्भ्यो गवेषण इन्द्रोऽहं यदनुविदे घ तदेव त्वं जानीहि ॥ ३ ॥