ए॒तानि॑ वामश्विना वी॒र्या॑णि॒ प्र पू॒र्व्याण्या॒यवो॑ऽवोचन्। ब्रह्म॑ कृ॒ण्वन्तो॑ वृषणा यु॒वभ्यां॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo vocan | brahma kṛṇvanto vṛṣaṇā yuvabhyāṁ suvīrāso vidatham ā vadema ||
ए॒तानि॑। वा॒म्। अ॒श्वि॒ना॒। वी॒र्या॑णि। प्र। पू॒र्व्याणि॑। आ॒यवः॑। अ॒वो॒च॒न्। ब्रह्म॑। कृ॒ण्वन्तः॑। वृ॒ष॒णा॒। यु॒वऽभ्या॑म्। सु॒ऽवीरा॑सः। वि॒दथ॑म्। आ। व॒दे॒म॒ ॥ १.११७.२५
स्वामी दयानन्द सरस्वती
फिर स्त्री-पुरुष कब विवाह करें, यह विषय अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनः स्त्रीपुरुषौ कदा विवाहं कुर्यातामित्युपदिश्यते ।
हे वृषणाऽश्विना वां यान्येतानि पूर्व्याणि वीर्याणि कर्माणि तान्यायवः प्रवोचन् युवभ्यां ब्रह्म कृण्वन्तो सुवीरासो वयं विदथमावदेम ॥ २५ ॥