श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथु॒: पात॑वे॒ वाः। श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गाम् ॥
śarasya cid ārcatkasyāvatād ā nīcād uccā cakrathuḥ pātave vāḥ | śayave cin nāsatyā śacībhir jasuraye staryam pipyathur gām ||
श॒रस्य॑। चि॒त्। आ॒र्च॒त्ऽकस्य॑। अ॒व॒तात्। आ। नी॒चात्। उ॒च्चा। च॒क्र॒थुः॒। पात॑वे। वाः। श॒यवे॑। चि॒त्। ना॒स॒त्या॒। शची॑भिः। जसु॑रये। स्त॒र्य॑म्। पि॒प्य॒थुः॒। गाम् ॥ १.११६.२२
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे नासत्या युवां शचीभिः शरस्य सकाशादागतान्नीचादवताच्चिदप्यार्चत्कस्य सकाशादागतादुच्चावतात् प्रजाः पातवे बलमाचक्रथुः। चिदपि शयवे जसुरये स्तर्यं वार्गां च पिप्यथुः ॥ २२ ॥