मा च्छे॑द्म र॒श्मीँरिति॒ नाध॑मानाः पितॄ॒णां श॒क्तीर॑नु॒यच्छ॑मानाः। इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णो मदन्ति॒ ता ह्यद्री॑ धि॒षणा॑या उ॒पस्थे॑ ॥
mā cchedma raśmīm̐r iti nādhamānāḥ pitṝṇāṁ śaktīr anuyacchamānāḥ | indrāgnibhyāṁ kaṁ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe ||
मा। छे॒द्म॒। र॒श्मीन्। इति॑। नाध॑मानाः। पि॒तॄ॒णाम्। श॒क्तीः। अ॒नु॒ऽयच्छ॑मानाः। इ॒न्द्रा॒ग्निऽभ्या॑म्। कम्। वृष॑णः। म॒द॒न्ति॒। ता। हि। अद्री॒ इति॑। धि॒षणा॑याः। उ॒पऽस्थे॑ ॥ १.१०९.३
स्वामी दयानन्द सरस्वती
फिर उनको क्या न करना चाहिये, यह विषय अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनरेताभ्यां किन्न कर्त्तव्यमित्युपदिश्यते ।
यथा वृषणो यावद्री वर्त्तते ता सम्यग्विज्ञायैताभ्यामिन्द्राग्निभ्यां धिषणाया उपस्थे कं प्राप्य मदन्ति तथा पितॄणां रश्मीन् नाधमानाः शक्तीरनुयच्छमाना वयं मदेमहीति विज्ञायैतदादिविद्यानां मूलं मा छेद्म ॥ ३ ॥