ए॒तत्त्यत्त॑ इन्द्र॒ वृष्ण॑ उ॒क्थं वा॑र्षागि॒रा अ॒भि गृ॑णन्ति॒ राध॑:। ऋ॒ज्राश्व॒: प्रष्टि॑भिरम्ब॒रीष॑: स॒हदे॑वो॒ भय॑मानः सु॒राधा॑: ॥
etat tyat ta indra vṛṣṇa ukthaṁ vārṣāgirā abhi gṛṇanti rādhaḥ | ṛjrāśvaḥ praṣṭibhir ambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ ||
ए॒तत्। त्यत्। ते॒। इ॒न्द्र॒। वृष्णे॑। उ॒क्थम्। वा॒र्षा॒गि॒राः। अ॒भि। गृ॒ण॒न्ति॒। राधः॑। ऋ॒ज्रऽअश्वः॑। प्रष्टि॑ऽभिः। अ॒म्ब॒रीषः॑। स॒हऽदे॑वः। भय॑मानः। सु॒ऽराधाः॑ ॥ १.१००.१७
स्वामी दयानन्द सरस्वती
फिर वह कैसा है, यह विषय अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनः स कथम्भूत इत्युपदिश्यते ।
हे इन्द्र वार्षागिरा यदेतत्ते तवोक्थमभिगृणन्ति त्यद्राधो वृष्णे जायते। योऽम्बरीषः सहदेवो भयमानः सुराधा ऋज्राश्वो भवान् प्रष्टिभिः पृष्टः समादधाति सोऽस्माभिः कथं न सेवनीयः ॥ १७ ॥