Devata: मित्रादयो लिङ्गोक्ता देवताः
                Rishi: दध्यङ्ङाथर्वण ऋषिः
                Chhanda: निचृदनुष्टुप्
                Swara: गान्धारः
                  
               
             
           
          शन्नो॑ मि॒त्रः शं वरु॑णः॒ शन्नो॑ भवत्वर्य॒मा। शन्न॒ऽ इन्द्रो॒ बृह॒स्पतिः॒ शन्नो॒ विष्णु॑रुरुक्र॒मः ॥९ ॥
               Pad Path 
              
             
              शम्। नः॒। मि॒त्रः। शम्। वरु॑णः। शम्। नः॒। भ॒व॒तु॒। अ॒र्य्य॒मा ॥ शम्। नः॒। इन्द्रः॑। बृह॒स्पतिः॑। शम्। नः॒। विष्णुः॑। उ॒रु॒क्र॒म इत्यु॑रुऽक्र॒मः ॥९ ॥
                Yajurveda » Adhyay:36» Mantra:9
              
            
            
        