Devata: रुद्रा देवताः
                Rishi: परमेष्ठी प्रजापतिर्वा देवा ऋषयः
                Chhanda: भुरिगार्ष्युष्णिक्
                Swara: गान्धारः
                  
               
             
           
          यऽए॒ताव॑न्तश्च॒ भूया॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे। तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥६३ ॥
               Pad Path 
              
             
              ये। ए॒ताव॑न्तः। च॒। भूया॑सः। च॒। दिशः॑। रु॒द्राः। वि॒त॒स्थि॒र इति॑ विऽतस्थि॒रे। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒ ॥६३ ॥
                Yajurveda » Adhyay:16» Mantra:63
              
            
            
        