Devata: रुद्रा देवताः
                Rishi: परमेष्ठी प्रजापतिर्वा देवा ऋषयः
                Chhanda: विराडार्ष्यनुष्टुप्
                Swara: गान्धारः
                  
               
             
           
          येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न्। तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥६२ ॥
               Pad Path 
              
             
              ये। अन्ने॑षु। वि॒वि॒ध्य॒न्तीति॑ वि॒ऽविध्य॑न्ति। पात्रे॑षु। पिब॑तः। जना॑न्। तेषा॑म्। स॒ह॒स्र॒योज॒न इति॑ सहस्रऽयो॒ज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒ ॥६२ ॥
                Yajurveda » Adhyay:16» Mantra:62
              
            
            
        