Devata: रुद्रा देवताः
                Rishi: परमेष्ठी प्रजापतिर्वा देवा ऋषयः
                Chhanda: निचृदार्ष्यनुष्टुप्
                Swara: गान्धारः
                  
               
             
           
          ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः। तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥५८ ॥
               Pad Path 
              
             
              ये। वृ॒क्षेषु॑। श॒ष्पिञ्ज॑राः। नील॑ग्रीवा॒ इति॒ नील॑ऽग्रीवाः। विलो॑हिता॒ इति॒ विऽलो॑हिताः। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒ ॥५८ ॥
                Yajurveda » Adhyay:16» Mantra:58
              
            
            
        