Go To Mantra
Select by Archik

गो꣣वि꣡त्प꣢वस्व वसु꣣वि꣡द्धि꣢रण्य꣣वि꣡द्रे꣢तो꣣धा꣡ इ꣢न्दो꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । त्व꣢ꣳ सु꣣वी꣡रो꣢ असि सोम विश्व꣣वि꣢꣫त्तं त्वा꣣ न꣢र꣣ उ꣡प꣢ गि꣣रे꣡म आ꣢꣯सते ॥९५५॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । त्वꣳ सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ॥९५५॥

Mantra Audio
Pad Path

गो꣣वि꣢त् । गो꣣ । वि꣢त् । प꣣वस्व । वसुवि꣡त् । व꣣सु । वि꣢त् । हि꣣रण्यवित् । हि꣣रण्य । वि꣢त् । रे꣣तो꣢धाः । रे꣣तः । धाः꣢ । इ꣣न्दो । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । त्वम् । सु꣣वी꣡रः꣢ । सु꣣ । वी꣡रः꣢꣯ । अ꣣सि । सोम । विश्ववित्꣢ । वि꣣श्व । वि꣢त् । तम् । त्वा꣣ । न꣡रः꣢꣯ । उ꣡प꣢꣯ । गि꣣रा꣢ । इ꣣मे꣢ । आ꣣सते ॥९५५॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 955 | (Kauthum) 3 » 2 » 1 » 1 | (Ranayaniya) 6 » 1 » 1 » 1