Go To Mantra
Select by Archik

सा꣣कं꣢ जा꣣तः꣡ क्रतु꣢꣯ना सा꣣क꣡मोज꣢꣯सा ववक्षिथ सा꣣कं꣢ वृ꣣द्धो꣢ वी꣣꣬र्यैः꣢꣯ सास꣣हि꣢꣫र्मृधो꣣ वि꣡च꣢र्षणिः । दा꣢ता꣣ रा꣡ध꣢ स्तुव꣣ते꣢꣫ काम्यं꣣ व꣢सु꣣ प्र꣡चे꣢तन꣣ सै꣡न꣢ꣳ सश्चद्दे꣣वो꣢ दे꣣व꣢ꣳ स꣣त्य꣡ इन्दुः꣢꣯ स꣣त्य꣡मिन्द्र꣢꣯म् ॥१४८७॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः । दाता राध स्तुवते काम्यं वसु प्रचेतन सैनꣳ सश्चद्देवो देवꣳ सत्य इन्दुः सत्यमिन्द्रम् ॥१४८७॥

Mantra Audio
Pad Path

सा꣣क꣢म् । जा꣣तः꣢ । क्र꣡तु꣢꣯ना । सा꣣क꣢म् । ओ꣡ज꣢꣯सा । व꣣वक्षिथ । साक꣢म् । वृ꣣द्धः꣢ । वी꣣र्यैः꣢ । सा꣣सहिः꣢ । मृ꣡धः꣢꣯ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । दा꣡ता꣢꣯ । रा꣡धः꣢꣯ । स्तु꣣वते꣢ । का꣡म्य꣢꣯म् । व꣡सु꣢꣯ । प्र꣡चे꣢꣯तन । प्र । चे꣣तन । सः꣢ । ए꣣नम् । सश्चत् । देवः꣡ । दे꣣व꣢म् । स꣣त्यः꣢ । इ꣡न्दुः꣢꣯ । स꣣त्य꣢म् । इ꣡न्द्र꣢꣯म् ॥१४८७॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1487 | (Kauthum) 6 » 3 » 18 » 2 | (Ranayaniya) 13 » 6 » 3 » 2