Go To Mantra
Select by Archik

शि꣡शुं꣢ जज्ञा꣣न꣡ꣳ ह꣢र्य꣣तं꣡ मृ꣢जन्ति शु꣣म्भ꣢न्ति꣣ वि꣡प्रं꣢ म꣣रु꣡तो꣢ ग꣣णे꣡न꣢ । क꣣वि꣢र्गी꣣र्भिः꣡ काव्ये꣢꣯ना क꣣विः꣡ सन्त्सोमः꣢꣯ प꣣वि꣢त्र꣣म꣡त्ये꣢ति꣣ रे꣡भ꣢न् ॥११७५॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

शिशुं जज्ञानꣳ हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन । कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥११७५॥

Mantra Audio
Pad Path

शि꣡शु꣢꣯म् । ज꣣ज्ञान꣢म् । ह꣣र्यत꣢म् । मृ꣣जन्ति । शुम्भ꣡न्ति꣢ । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । मरु꣡तः꣢ । ग꣣णे꣡न꣢ । क꣣विः꣢ । गी꣣र्भिः꣢ । का꣡व्ये꣢꣯न । क꣣विः꣢ । सन् । सो꣡मः꣢꣯ । प꣣वि꣡त्र꣢म् । अ꣡ति꣢꣯ । ए꣣ति । रे꣡भ꣢꣯न् ॥११७५॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1175 | (Kauthum) 5 » 1 » 1 » 1 | (Ranayaniya) 9 » 1 » 1 » 1