SEARCH RISHI

We found 12 references of देवापिरार्ष्टिषेणः in Rigveda!

बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा । आदित्यैर्वा यद्वसुभिर्मरुत्वान्त्स पर्जन्यं शंतनवे वृषाय ॥


आ देवो दूतो अजिरश्चिकित्वान्त्वद्देवापे अभि मामगच्छत् । प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतीं वाचमासन् ॥


अस्मिन्त्समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवृता अतिष्ठन् । ता अद्रवन्नार्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥


यं त्वा देवापि: शुशुचानो अग्न आर्ष्टिषेणो मनुष्य: समीधे । विश्वेभिर्देवैरनुमद्यमान: प्र पर्जन्यमीरया वृष्टिमन्तम् ॥