Go To Mantra

कनि॑क्रद॒दनु॒ पन्था॑मृ॒तस्य॑ शु॒क्रो वि भा॑स्य॒मृत॑स्य॒ धाम॑ । स इन्द्रा॑य पवसे मत्स॒रवा॑न्हिन्वा॒नो वाचं॑ म॒तिभि॑: कवी॒नाम् ॥

English Transliteration

kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma | sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām ||

Pad Path

कनि॑क्रदत् । अनु॑ । पन्था॑म् । ऋ॒तस्य॑ । शु॒क्रः । वि । भा॒सि॒ । अ॒मृत॑स्य । धाम॑ । सः । इन्द्रा॑य । प॒व॒से॒ । म॒त्स॒रऽवा॑न् । हि॒न्वा॒नः । वाच॑म् । म॒तिऽभिः॑ । क॒वी॒नाम् ॥ ९.९७.३२

Rigveda » Mandal:9» Sukta:97» Mantra:32 | Ashtak:7» Adhyay:4» Varga:17» Mantra:2 | Mandal:9» Anuvak:6» Mantra:32


Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! (ऋतस्य) सच्चाई के (पन्थाम्) रास्ते का (कनिक्रदत्) उपदेश करते हुए (शुक्रः) बलस्वरूप आप (विभासि) प्रकाशमान हो रहे हो, तुम (अमृतस्य, धाम) अमृत के धाम हो (सः) उक्तगुणसम्पन्न आप (इन्द्राय) कर्मयोगी को (पवसे) पवित्र करते हैं, (मत्सरवान्) आप आनन्दस्वरूप हैं, (कवीनाम्) मेधावी पुरुषों की (वाचम्) वाणी को (मतिभिः) अपने ज्ञानों द्वारा (हिन्वानः) प्रेरणा करते हुए (पवसे) पवित्र करते हैं ॥३२॥
Connotation: - जो लोग ज्ञानयोगी व कर्मयोगी हैं, परमात्मा उनके उद्योग को अवश्यमेव सफल करता है ॥३२॥
Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! (ऋतस्य, पन्थां) सत्यस्य मार्गं (कनिक्रदत्) उपदिशन् (शुक्रः, वि, भासि) बलस्वरूपो भवान् विराजते (अमृतस्य, धाम) मोक्षस्थानं च भवान् (सः) स पूर्वोक्तो भवान् (इन्द्राय, पवसे) कर्मयोगिनं पुनाति (मत्सरवान्) आनन्दस्वरूपः (कवीनां, वाचं) मेधाविनां वाणीं (मतिभिः, हिन्वानः) स्वज्ञानैः प्रेरयन् (पवसे) पवित्रयति ॥३२॥