Go To Mantra

आ यो गोभि॑: सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः । आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इन्द्रं॒ सोमो॑ मा॒दय॒न्दैव्यं॒ जन॑म् ॥

English Transliteration

ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṁ sumna iṣayann upāvasuḥ | ā vidyutā pavate dhārayā suta indraṁ somo mādayan daivyaṁ janam ||

Pad Path

आ । यः । गोभिः॑ । सृ॒ज्यते॑ । ओष॑धीषु । आ । दे॒वाना॑म् । सु॒म्ने । इ॒षय॑न् । उप॑ऽवसुः । आ । वि॒ऽद्युता॑ । प॒व॒ते॒ । धार॑या । सु॒तः । इन्द्र॑म् । सोमः॑ । मा॒दय॑न् । दैव्य॑म् । जन॑म् ॥ ९.८४.३

Rigveda » Mandal:9» Sukta:84» Mantra:3 | Ashtak:7» Adhyay:3» Varga:9» Mantra:3 | Mandal:9» Anuvak:4» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - (सोमः) परमात्मा (दैव्यं, जनं) दिव्यगुणवाले (इन्द्रं) कर्म्मयोगी को (मादयन्) आनन्दित करता हुआ (उपावसुः) स्थिर होता है। (यः) जो परमात्मा (गोभिः) पृथिव्यादिकों की सूक्ष्म पञ्चतन्मात्राओं से लेकर (ओषधीषु, आ) ओषधियों तक (आसृज्यते) सब ब्रह्माण्डों को रचता हुआ और (देवानां) विद्वानों के (सुम्ने) सुख के लिये (इषयन्) इच्छा करता हुआ (विद्युता) विद्युत् रूपी शक्ति से सबको पवित्र करता है और (धारया, सुतः) सुधामय है ॥३॥
Connotation: - जो विद्वान् पुरुष ईश्वरीय विद्या को प्राप्त होकर संसार की रक्षा करना चाहते हैं, परमात्मा उनके सुख की सदैव वृद्धि करता है ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (सोमः) जगदुत्पादको जगदीश्वरः (दैव्यं जनम्) दिव्यगुणं (इन्द्रम्) कर्मयोगिनं (मादयन्) आनन्दयन् (उपावसुः) स्थिरो भवति। (यः) यः परमेश्वरः (गोभिः) पृथिव्यादिसूक्ष्म-पञ्चतन्मात्रमारभ्य (ओषधीषु, आ) ओषधिपर्यन्तं (आसृज्यते) सकलं ब्रह्माण्डं विरचयति। अथ च (देवानाम्) विद्वज्जनानां (सुम्ने) सुखस्य (इषयन्) इच्छां कुर्वन् (विद्युता) विद्युद्रूपशक्त्या सर्वान् पवित्रयति। अथ यः परमेश्वरः (धारया सुतः) स्वयमानन्दमयो वरीवर्ति ॥३॥