Go To Mantra

स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रज॑: । स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥

English Transliteration

sa pūrvyaḥ pavate yaṁ divas pari śyeno mathāyad iṣitas tiro rajaḥ | sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā ||

Pad Path

सः । पू॒र्व्यः । प॒व॒ते॒ । यम् । दि॒वः । परि॑ । श्ये॒नः । म॒था॒यत् । इ॒षि॒तः । ति॒रः । रजः॑ । सः । मध्वः॑ । आ । यु॒व॒ते॒ । वेवि॑जानः । इत् । कृ॒शानोः । अस्तुः॑ । मन॑सा । अह॑ । बि॒भ्युषा॑ ॥ ९.७७.२

Rigveda » Mandal:9» Sukta:77» Mantra:2 | Ashtak:7» Adhyay:3» Varga:2» Mantra:2 | Mandal:9» Anuvak:4» Mantra:2


Reads times

ARYAMUNI

Word-Meaning: - (सः) पूर्वोक्त परमात्मा (पूर्व्यः) अनादि है और (पवते) सबको पवित्र करता है। जो (रजः) प्रकृति के रजोगुण को (तिरः) तिरस्कार करके (परिमथायत्) सबको मथन करता है, (सः) वह (मध्वः) मधुरूप है और (आयुवते) परमाणुरूप प्रकृति को आपस में मिलानेवाला है। (वेविजानः) गतिशील है। (कृशानोः) अपनी तेजरूप शक्ति से (अस्तुः) आक्षेप्ता पुरुषों को (मनसा) अपनी मननरूप शक्ति से (बिभ्युषा) भय को देनेवाला है ॥२॥
Connotation: - परमात्मा प्रकृति के रजोरूप परमाणुओं का संयोग करके इस सृष्टि को उत्पन्न करता है ॥२॥
Reads times

ARYAMUNI

Word-Meaning: - (सः) असौ परमेश्वरः (पूर्व्यः) अनादिरस्ति। तथा (पवते) पवित्रयति। यः (रजः) प्रकृते रजोगुणं (तिरः) तिरस्कृत्य (परिमथायत्) सर्वान् मथ्नाति (सः) अयं परमात्मा (मध्वः) मधुरूपोऽस्ति। तथा (आयुवते) परमाणुरूपप्रकृतिं मिथो मेलयति च। अथ च (वेविजानः) गतिशीलोऽस्ति (कृशानोः) स्वीयतेजोरूपशक्त्या (अस्तुः) आक्षेपकारि- जनेभ्यः (मनसा) आत्मीयमननरूपबलेन (बिभ्युषा) भयं ददाति ॥२॥