Go To Mantra

दि॒वो यः स्क॒म्भो ध॒रुण॒: स्वा॑तत॒ आपू॑र्णो अं॒शुः प॒र्येति॑ वि॒श्वत॑: । सेमे म॒ही रोद॑सी यक्षदा॒वृता॑ समीची॒ने दा॑धार॒ समिष॑: क॒विः ॥

English Transliteration

divo yaḥ skambho dharuṇaḥ svātata āpūrṇo aṁśuḥ paryeti viśvataḥ | seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ ||

Mantra Audio
Pad Path

दि॒वः । यः । स्क॒म्भः । ध॒रुणः॑ । सुऽआ॑ततः । आऽपू॑र्णः । अं॒शुः । प॒रि॒ऽ एति॑ । वि॒श्वतः॑ । सः । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । य॒क्ष॒त् । आ॒ऽवृता॑ । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । दा॒हा॒र॒ । सम् । इषः॑ । क॒विः ॥ ९.७४.२

Rigveda » Mandal:9» Sukta:74» Mantra:2 | Ashtak:7» Adhyay:2» Varga:31» Mantra:2 | Mandal:9» Anuvak:4» Mantra:2


Reads times

ARYAMUNI

Word-Meaning: - (दिवः यः स्कम्भः) जो द्युलोक का सहारा है और (धरुणः) पृथिवी का धारण करनेवाला है तथा (स्वाततः) विस्तृत (आपूर्णः) सर्वत्र परिपूर्ण (अंशुः) व्यापक परमात्मा (विश्वतः) सब ओर से (पर्येति) प्राप्त है, (सः) वह परमात्मा (इमे मही रोदसी) इस भूलोक और अन्तरिक्षलोक को (आवृता) अद्भुत कर्म से (यक्षत्) संगत करता है और (समीचीने) संगत द्युलोक और भूलोक को वही परमात्मा (दाधार) धारण करता है। वह (कविः) सर्वज्ञ परमेश्वर (इषः) ऐश्वर्यों को (सम्) देता है ॥२॥
Connotation: - जिस परमात्मा ने द्युलोक और पृथिवीलोकादिकों को लीलामात्र से धारण किया है, वही सब ऐश्वर्यों का दाता है, अन्य नहीं ॥२॥
Reads times

ARYAMUNI

Word-Meaning: - (दिवः यः स्कम्भः) यो द्युलोकस्य सहायः अथ च (धरुणः) पृथिव्या धारकोऽस्ति तथा (स्वाततः) विततः (आपूर्णः) सर्वत्र परिपूर्णः (अंशुः) व्यापकः परमात्मा (विश्वतः) सर्वतः (पर्येति) प्राप्तोऽस्ति (सः) असौ परमात्मा (इमे मही रोदसी) इमं भूलोकं द्युलोकं च (आवृता) आश्चर्यकर्मणा (यक्षत्) सङ्गतं करोति। अथ च (समीचीने) सङ्गते द्यावाभूमी स परमात्मैव (दाधार) धारयति। सः (कविः) सर्वज्ञो जगदीश्वरः (इषः) ऐश्वर्यान् (सम्) सम्प्रयच्छति। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥२॥