Go To Mantra

प्रति॑ प्राश॒व्याँ॑ इतः स॒म्यञ्चा॑ ब॒र्हिरा॑शाते । न ता वाजे॑षु वायतः ॥

English Transliteration

prati prāśavyām̐ itaḥ samyañcā barhir āśāte | na tā vājeṣu vāyataḥ ||

Pad Path

प्रति॑ । प्रा॒श॒व्या॑न् । इ॒तः॒ । स॒म्यञ्चा॑ । ब॒र्हिः । आ॒शा॒ते॒ इति॑ । न । ता । वाजे॑षु । वा॒य॒तः॒ ॥ ८.३१.६

Rigveda » Mandal:8» Sukta:31» Mantra:6 | Ashtak:6» Adhyay:2» Varga:39» Mantra:1 | Mandal:8» Anuvak:5» Mantra:6


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - पुनरपि दम्पती का वर्णन है। जो स्त्री और पुरुष (सम्यञ्चा) अच्छे प्रकार सङ्गत होकर (बर्हिः) यज्ञ (आशाते) करते हैं, (ता) वे (प्राशव्यान्) भोज्य पदार्थ (प्रतीतः) पाते हैं और (वाजेषु) अन्नों के लिये (न+वायतः) कहीं अन्यत्र नहीं जाते ॥६॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - पुनरपि दम्पती विशिनष्टि। यथा−यौ दम्पती। सम्यञ्चा=सम्यञ्चौ समीचीनतया संगतौ भूत्वा। बर्हिर्यज्ञम्। आशाते द्रव्यादिभिर्व्याप्नुतः कुरुत इत्यर्थः। ता=तौ सुप्रसिद्धौ दम्पती। प्राशव्यान् अश भोजने। प्राशनं प्राशुः प्राशौ साधून् हितान् वा प्राशव्यान् भोज्यान् पदार्थान्। प्रतीतः प्रतिगच्छतः प्राप्नुतः। पुनः तौ वाजेषु अन्नेषु न वायतः वयतिर्गत्यर्थः न गच्छतः। नान्यत्रान्नार्थं गच्छतः ॥६॥