प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः । इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो न॑: क॒दा चि॑दभि॒दास॑ति द्रु॒हा ॥
prati smarethāṁ tujayadbhir evair hataṁ druho rakṣaso bhaṅgurāvataḥ | indrāsomā duṣkṛte mā sugam bhūd yo naḥ kadā cid abhidāsati druhā ||
प्रति॑ । स्म॒रे॒था॒म् । तु॒जय॑त्ऽभिः । एवैः॑ । ह॒तम् । द्रु॒हः । र॒क्षसः॑ । भ॒ङ्गु॒रऽव॑तः । इन्द्रा॑सोमा । दुः॒ऽकृते॑ । मा । सु॒ऽगम् । भू॒त् । यः । नः॒ । क॒दा । चि॒त् । अ॒भि॒ऽदास॑ति । द्रु॒हा ॥ ७.१०४.७