Go To Mantra

स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् । अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ॥

English Transliteration

sa vrādhataḥ śavasānebhir asya kutsāya śuṣṇaṁ kṛpaṇe parādāt | ayaṁ kavim anayac chasyamānam atkaṁ yo asya sanitota nṛṇām ||

Pad Path

सः । व्राध॑तः । श॒व॒सा॒नेभिः॑ । अ॒स्य॒ । कुत्सा॑य । शुष्ण॑म् । कृ॒पणे॑ । परा॑ । अ॒दा॒त् । अ॒यम् । क॒विम् । अ॒न॒य॒त् । श॒स्यमा॑नम् । अत्क॑म् । यः । अ॒स्य॒ । सनि॑ता । उ॒त । नृ॒णाम् ॥ १०.९९.९

Rigveda » Mandal:10» Sukta:99» Mantra:9 | Ashtak:8» Adhyay:5» Varga:15» Mantra:3 | Mandal:10» Anuvak:8» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: - (सः) वह ऐश्वर्यवान् परमात्मा (शवसानेभिः) बहुत बलवान् उपायों से (व्राधतः) अत्यन्त बड़े शत्रुओं-विरोधियों को (अस्य) ताड़ित करता है (कुत्साय) स्तुति करनेवाले (कृपणे) अर्चना करनेवाले-स्वात्मसमर्पण करनेवाले के लिए (शुष्णम्) शोषक बल को (परादात्) परे करता है-हटाता है-दूर करता है (नृणां-यः) नरों में जो नर-मनुष्य (अस्य-सनिता) उस परमात्मा का सम्भजन करनेवाला (अयम्) वह यह उपासक (शस्यमानम्) प्रशंसनीय स्तुति करने योग्य (कविम्) क्रान्तदर्शी (अत्कम्) अतनशील व्यापक परमात्मा को (अनयत्) अपने आत्मा में लाता है, साक्षात् करता है ॥९॥
Connotation: - परमात्मा विरोधियों को महान् बलों से परास्त करता है, अपने उपासकों से शोषणबलों को दूर रखता है। जो मनुष्य उसका उपासक होता है, वह उस व्यापक परमात्मा को अपने अन्दर साक्षात् करता है ॥९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सः) इन्द्रः-ऐश्वर्यवान् परमात्मा (शवसानेभिः) अभिबलायमानैः-बहुबलवद्भिरुपायैः “शवसानम्-अभिबलायमानम्” [निरु० १०।३] (व्राधतः) महतोऽति प्रवृद्धान्-शत्रून् विरोधिनः “व्राधत्-महन्नाम” [निघ० ३।३] “व्राधतः-अतिप्रवृद्धान् शत्रून्” [ऋ० १।१००।९ दयानन्दः] (अस्य) अस्यति ताडयति ‘पुरुषव्यत्ययः’ (कुत्साय कृपणे शुष्णं परादात्) स्तुतिकर्त्रे “कुत्सः कर्त्ता स्तोमानाम्” [निरु० ३।११] अर्चकाय स्वात्मसमर्पणाय “कृपण्यति-अर्चतिकर्मा” [निघ० ३।१४] शोषकं बलं पराकरोति (नृणां यः-अस्य सनिता) नराणां यो नरो मनुष्यो-अस्य परमात्मनः-सम्भक्तः-उपासकः (अयं शस्यमानं कविम्-अत्कम्-अनयत्) सोऽयमुपासकः प्रशंसनीयं स्तोतव्यं क्रान्तदर्शिनमतनशीलं व्याप्तं परमात्मानम् “अत्कं व्याप्तम्” [ऋ० ५।७४।४ दयानन्दः] स्वात्मनि खल्वानयति साक्षात्करोति ॥९॥