Go To Mantra

वि॒शामा॒सामभ॑यानामधि॒क्षितं॑ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि । ग्नाभि॒र्विश्वा॑भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा॑नं नृ॒मणा॒ अधा॒ पति॑म् ॥

English Transliteration

viśām āsām abhayānām adhikṣitaṁ gīrbhir u svayaśasaṁ gṛṇīmasi | gnābhir viśvābhir aditim anarvaṇam aktor yuvānaṁ nṛmaṇā adhā patim ||

Pad Path

वि॒शाम् । आ॒साम् । अभ॑यानाम् । अ॒धि॒ऽक्षित॑म् । गीः॒ऽभिः । ऊँ॒ इति॑ । स्वऽय॑शसम् । गृ॒णी॒म॒सि॒ । ग्नाभिः॑ । विश्वा॑भिः । अदि॑तिम् । अ॒न॒र्वण॑म् । अ॒क्तोः । युवा॑नम् । नृ॒ऽमनाः॑ । अध॑ । पति॑म् ॥ १०.९२.१४

Rigveda » Mandal:10» Sukta:92» Mantra:14 | Ashtak:8» Adhyay:4» Varga:25» Mantra:4 | Mandal:10» Anuvak:8» Mantra:14


Reads times

BRAHMAMUNI

Word-Meaning: - (आसाम्) इन (अभयानाम्) भयरहित (विशाम्) उपासक प्रजाओं के (अधिक्षितम्) अन्दर निवास करनेवाले (स्वयशसम्) स्वाधार यशवाले (अदितिम्) एकरस (अनर्वणम्) स्वाश्रित (नृमणाः) जीवन्मुक्तों में कृपाभाव से स्वप्रसाददानरूप मनवाले (अध) और (पतिम्) सब जगत् के स्वामी या पालक (अक्तोः-युवानम्) उसी कामना करनेवाले के सङ्गमकर्त्ता परमात्मा को (विश्वाभिः) सब प्रकारवाली (ग्नाभिः) स्तुतिवाणियों से (गृणीमसि) हम स्तुति में लावें ॥१४॥
Connotation: - निर्भय, उपासक, मनुष्यप्रजाओं के अन्दर निवास करनेवाले, स्वाधार, यशस्वी, एकरस, जगत् के स्वामी, उपासकों को चाहनेवाले, उनके साथ सङ्गति करनेवाले परमात्मा की स्तुति करनी चाहिये ॥१४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (आसाम्-अभयानां विशाम्) एतासां भयरहितानामुपासकप्रजानाम् (अधिक्षितम्) अन्तर्निवसन्तं (स्वयशसम्) स्वाधारयशस्विनम् (अदितिम्) एकरसं (अनर्वणम्) स्वाश्रितं (नृमणाः) नृमणसम् “सुपां सु०” [अष्टा० ७।१।३९] इति ‘अम्स्थाने सुः” नृषु जीवन्मुक्तेषु कृपाभावेन स्वप्रसाददानाय मनो यस्य तथाभूतम् “नरो ह वै देवविशः” [जै० १।८९] (अध) अथ च (पतिम्) सर्वस्य जगतः स्वामिनं पालकं वा (अक्तोः-युवानम्) परमात्मानं कामयमानस्य मिश्रयितारं (विश्वाभिः-ग्नाभिः-गृणीमसि) सर्वाभिः स्तुतिवाग्भिः “ग्ना वाङ्नाम” [निघ० १।११] वयं स्तुमः ॥१४॥