Go To Mantra

श॒त्रू॒यन्तो॑ अ॒भि ये न॑स्तत॒स्रे महि॒ व्राध॑न्त ओग॒णास॑ इन्द्र । अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां सुज्यो॒तिषो॑ अ॒क्तव॒स्ताँ अ॒भि ष्यु॑: ॥

English Transliteration

śatrūyanto abhi ye nas tatasre mahi vrādhanta ogaṇāsa indra | andhenāmitrās tamasā sacantāṁ sujyotiṣo aktavas tām̐ abhi ṣyuḥ ||

Pad Path

श॒त्रु॒ऽयन्तः॑ । अ॒भि । ये । नः॒ । त॒त॒स्रे । महि॑ । व्राध॑न्तः । ओ॒ग॒णासः॑ । इ॒न्द्र॒ । अ॒न्धेन॑ । अ॒मित्राः॑ । तम॑सा । स॒च॒न्ता॒म् । सु॒ऽज्यो॒तिषः॑ । अ॒क्तवः॑ । तान् । अ॒भि । स्यु॒रिति॑ स्युः ॥ १०.८९.१५

Rigveda » Mandal:10» Sukta:89» Mantra:15 | Ashtak:8» Adhyay:4» Varga:16» Mantra:5 | Mandal:10» Anuvak:7» Mantra:15


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र) हे परमात्मन् ! (ये) जो (ओगणासः) अवगण-नीचसङ्घ (नः) हमें (शत्रूयन्तः) अपना शत्रु मानते हुए (महि व्राधन्तः) महत् बाधा पीड़ा देते हुए (अभि ततस्रे) नष्ट कर रहे हैं (अभि) सब ओर से वे शत्रुजन (अन्धेन तमसा) घने अन्धकार से (सचन्ताम्) संगत हों (सुज्योतिषः-अक्तवः) तीक्ष्ण तेजवाले दिन-रात (तान् अभिष्युः) उन्हें अभिभूत करें ॥१५॥
Connotation: - शत्रुता करनेवाले पीड़ा पहुँचानेवाले नीचसङ्घ घने अन्धकार से संगत हो जाते हैं और उनके दिन-रात भी तीक्ष्ण तेज से उन्हें तपाते हैं ॥१५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र) हे परमात्मन् ! (ये) खलु (ओगणासः) अवगणाः नीचगणाः (नः) अस्मान् (शत्रूयन्तः) शत्रुत्वमाचरन्तः (महि व्राधन्तः) महत् अत्यन्तं हिंसन्तः “व्राधन्तं वा धन्तं व्याधमिव हिंसन्तम्” [ऋ० ४।३२।३ दयानन्दः] (अभिततस्रे) अभि-उपक्षिण्वन्ति नाशयन्ति “तसु उपक्षये” [दिवादि०] (अभि) अभितः, शत्रवः (अन्धेन तमसा सचन्ताम्) महतान्धकारेण सङ्गच्छन्तां (सुज्योतिषा-अक्तवः) तीक्ष्णप्रकाशवन्तो दिवसा रात्रयश्च (तान्-अभिष्युः) तानभिभवेयुः-बाधेरन् ॥१५॥