Go To Mantra

द्वे स्रु॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् । ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ॥

English Transliteration

dve srutī aśṛṇavam pitṝṇām ahaṁ devānām uta martyānām | tābhyām idaṁ viśvam ejat sam eti yad antarā pitaram mātaraṁ ca ||

Pad Path

द्वे इति॑ । स्रु॒ती इति॑ । अ॒शृ॒ण॒व॒म् । पि॒तॄ॒णाम् । अ॒हम् । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् । ताभ्या॑म् । इ॒दम् । विश्व॑म् । एज॑त् । सम् । ए॒ति॒ । यत् । अ॒न्त॒रा । पि॒तर॑म् । मा॒तर॑म् । च॒ ॥ १०.८८.१५

Rigveda » Mandal:10» Sukta:88» Mantra:15 | Ashtak:8» Adhyay:4» Varga:12» Mantra:5 | Mandal:10» Anuvak:7» Mantra:15


Reads times

BRAHMAMUNI

Word-Meaning: - (मर्त्यानां पितॄणाम्) मरणधर्मी जीवों के मध्य में सन्तानपालक जनों से (उत) तथा (देवानाम्) मुमुक्षुओं जीवन्मुक्तों के (द्वे स्रुती) दो मार्ग पितृयाण तथा देवयान (अशृणवम्) मैं जिज्ञासु सुनता हूँ, (ताभ्याम्) उन से (एजत्-विश्वः सम् एति) गति करता हुआ-कर्म करता हुआ सब जीवमात्र जाता है (पितरं मातरम्-अन्तरा च यत्) पिता और माता के मध्य में जो जन्म धारण करता है, उसके ये दो मार्ग हैं ॥१५॥
Connotation: - संसार में जो माता-पिता के द्वारा जन्म धारण करते हैं, उनमें से संतानोत्पादक सांसारिक मरणधर्मी जनों का पितृयाण तथा मुमुक्षु जीवन्मुक्तों का देवयानमार्ग है ॥१५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (मर्त्यानां पितॄणाम्-उत देवानाम्) मरणधर्मणां मध्ये वर्तमानानां पितॄणां सन्तानपालकानां तथा च विदुषां मुमुक्षूणां जीवन्मुक्तानां (द्वे स्रुती अशृणवम्) अहं जिज्ञासुः द्वौ मार्गौ पितृयाणो देवयानश्च शृणोमि (ताभ्याम्) मार्गाभ्यां (एजत्-विश्वं सम् एति) गतिं कुर्वन्-कर्म कुर्वन् सर्वमपि जीवजातं गच्छति (पितरं मातरम्-अन्तरा च यत्) पितुश्च मातुश्च मध्ये यो जायते जन्म धारयति तस्य द्वौ मार्गौ स्तः ॥१५॥