Go To Mantra

वै॒श्वा॒न॒रं क॒वयो॑ य॒ज्ञिया॑सो॒ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यम् । नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हन्त॑म् ॥

English Transliteration

vaiśvānaraṁ kavayo yajñiyāso gniṁ devā ajanayann ajuryam | nakṣatram pratnam aminac cariṣṇu yakṣasyādhyakṣaṁ taviṣam bṛhantam ||

Pad Path

वै॒श्वा॒न॒रम् । क॒वयः॑ । य॒ज्ञियाः॑ । अ॒ग्निम् । दे॒वाः । अ॒ज॒न॒य॒न् । अ॒जु॒र्यम् । नक्ष॑त्रम् । प्र॒त्नम् । अमि॑नत् । च॒रि॒ष्णु । य॒क्षस्य॑ । अधि॑ऽअक्षम् । त॒वि॒षम् । बृ॒हन्त॑म् ॥ १०.८८.१३

Rigveda » Mandal:10» Sukta:88» Mantra:13 | Ashtak:8» Adhyay:4» Varga:12» Mantra:3 | Mandal:10» Anuvak:7» Mantra:13


Reads times

BRAHMAMUNI

Word-Meaning: - (कवयः) मेधावी (यज्ञियासः) अध्यात्मयज्ञसम्पादक (देवाः) मुमुक्षु जन-विद्वान् (अजुर्यम्) जरारहित-अविनाशी (वैश्वानरम्) विश्वनायक (अग्निम्) परमात्मा को (अजनयन्) अपने आत्मा में प्रादुर्भूत करते हैं, (यक्षस्य) पूजनीय (नक्षत्रम्) व्यापक (प्रत्नम्) पुरातन-शाश्वत (चरिष्णु) सर्वत्र चरणशील (अध्यक्षम्) सबके स्वामी (तविषम्) बलवान् (बृहन्तम्) महान्-अनन्त को  (अमिनत्) प्राप्त करते हैं ॥१३॥
Connotation: - मुमुक्षु विद्वानों को अपने आत्मा में पूजनीय परमात्मा का साक्षात् करना चाहिए तथा उस स्वामी को प्राप्त करना चाहिए ॥१३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (कवयः) मेधाविनः “कविः-मेधाविनाम” [निघ० ३।१५] (यज्ञियाः) अध्यात्मयज्ञसम्पादिनः (देवाः) मुमुक्षवो विद्वांसः (अजुर्यं वैश्वानरम्-अग्निम्) जरारहितमनश्वरं विश्वनायकं परमात्मानं (अजनयन्) स्वात्मनि प्रादुर्भावयन्ति (यक्षस्य) यक्षं पूजनीयम् ‘व्यत्ययेन षष्ठी’ (नक्षत्रं प्रत्नम्) व्यापकम् “नक्षति व्याप्नोतिकर्मा” [निघ० २।१८] पुरातनं शाश्वतं (चरिष्णु) चरिष्णुं सर्वत्र चरणशीलं (अध्यक्षं तविषं बृहन्तम्) सर्वस्य स्वामिनं बलवन्तं महान्तम् (अमिनत्) अमिनन् ‘व्यत्ययेनैकवचनम्’, आत्मानं प्राप्नुवन्ति ॥१३॥