Go To Mantra

य॒देदे॑न॒मद॑धुर्य॒ज्ञिया॑सो दि॒वि दे॒वाः सूर्य॑मादिते॒यम् । य॒दा च॑रि॒ष्णू मि॑थु॒नावभू॑ता॒मादित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ॥

English Transliteration

yaded enam adadhur yajñiyāso divi devāḥ sūryam āditeyam | yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā ||

Pad Path

य॒दा । इत् । ए॒न॒म् । अद॑धुः । य॒ज्ञिया॑सः । दि॒वि । दे॒वाः । सूर्य॑म् । आ॒दि॒ते॒यम् । य॒दा । च॒रि॒ष्णू इति॑ । मि॒थु॒नौ । अभू॑ताम् । आत् । इत् । प्र । अ॒प॒श्य॒न् । भुव॑नानि । विश्वा॑ ॥ १०.८८.११

Rigveda » Mandal:10» Sukta:88» Mantra:11 | Ashtak:8» Adhyay:4» Varga:12» Mantra:1 | Mandal:10» Anuvak:7» Mantra:11


Reads times

BRAHMAMUNI

Word-Meaning: - (यत्) जब (यज्ञियासः-देवाः) यज्ञसम्पादी सृष्टि के प्राण (दिवि) हिरण्यमय ब्रह्माण्ड में (आदितेयम्) पृथिवी से सम्बद्ध हुए (सूर्यम् अदधुः) सूर्य को धारण करते हैं-स्थापित करते हैं (यदा) जब कि (चरिष्णू मिथुना-अभूताम्) दो सहचारी सूर्य और उषा परस्पर आश्रयभूत प्रकट होते हैं (आत्-इत्) अनन्तर ही (विश्वा भूतानि प्र-अपश्यन्) सब प्राणी देखते हैं ॥११॥
Connotation: - सृष्टि के प्राण सृष्टि के पदार्थों कणों को संगत करते हुए पृथिवी से संगत हो सूर्य और उषा जोड़े को प्रकट करते हैं, जिन्हें सब प्राणी देखते हैं ॥११॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यत्) यदा (यज्ञियासः-देवाः) यज्ञसम्पादिनः प्राणाः (दिवि) हिरण्यमये ब्रह्माण्डे (आदितेयम्) अदितिः पृथिवी “अदितिः पृथिवीनाम” [निघ० १।१] पृथिव्या सह सम्बद्धं लक्ष्यीकृत्य (सूर्यम्-अदधुः) दधति-धारयन्ति-स्थापयन्ति (यदा चरिष्णू मिथुना-अभूताम्) यदा पुनर्द्वौ सहचारिणौ मिथुनौ परस्परमाश्रयभूतौ वाऽऽदित्यश्चोषाश्च प्रादुर्भवतः (आत्-इत्) अनन्तरं हि (विश्वा भूतानि प्र-अपश्यन्) सर्वाणि भूतानि सर्वे प्राणिनः प्रत्यक्षं पश्यन्ति, इत्येषोऽर्थो निरुक्तानुसारी ॥११॥