Go To Mantra

सु॒भा॒गान्नो॑ देवाः कृणुता सु॒रत्ना॑न॒स्मान्त्स्तो॒तॄन्म॑रुतो वावृधा॒नाः । अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो॑ रत्न॒धेया॑नि॒ सन्ति॑ ॥

English Transliteration

subhāgān no devāḥ kṛṇutā suratnān asmān stotṝn maruto vāvṛdhānāḥ | adhi stotrasya sakhyasya gāta sanād dhi vo ratnadheyāni santi ||

Pad Path

सु॒ऽभा॒गान् । नः॒ । दे॒वाः॒ । कृ॒णु॒त॒ । सु॒ऽरत्ना॑न् । अ॒स्मान् । स्तो॒तॄन् । म॒रु॒तः॒ । व॒वृ॒धा॒नाः । अधि॑ । स्तो॒त्रस्य॑ । स॒ख्यस्य॑ । गा॒त॒ । स॒नात् । हि । वः॒ । र॒त्न॒ऽधेया॑नि । सन्ति॑ ॥ १०.७८.८

Rigveda » Mandal:10» Sukta:78» Mantra:8 | Ashtak:8» Adhyay:3» Varga:13» Mantra:3 | Mandal:10» Anuvak:6» Mantra:8


Reads times

BRAHMAMUNI

Word-Meaning: - (मरुतः-देवाः) हे जीवन्मुक्त विद्वानों ! तुम (नः) हमें (सुभागान्-कृणुत) अपने ज्ञान में सुभागवाले-उत्तमभागीदार करो (अस्मात् स्तोतॄन्) हम स्तुति करनेवालों को (वावृधानः) बढ़ाते हुए (सुरत्नान्) अध्यात्मरमणीय सुखवाले करो (स्तोत्रस्य-सख्यस्य अधिगात) स्तुति करने योग्य परमात्मा के साथ सखिभाव के साधन का उपदेश करो (वः-रत्नधे-यानि) तुम्हारे रत्नों के धातव्य-अन्दर प्रवेष्टव्य-स्थापनीय हैं ॥८॥
Connotation: - जीवन्मुक्त विद्वानों का सङ्ग कर उनसे प्रार्थना करनी चाहिए कि अपने ज्ञान में भागवाले बनावें, परमात्मा के साथ मित्र-भाव हो जावे, ऐसा उपदेश करें और अध्यात्मरत्न हमारे अन्दर प्रविष्ट हो जावें ॥८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (मरुतः-देवाः) हे जीवन्मुक्ता विद्वांसः यूयम् (नः) अस्मान् (सुभागान् कृणुत) स्वज्ञाने सुभागवन्तः कुरुत (अस्मान् स्तोतॄन् वावृधानाः-सुरत्नान्) अस्मान् परमात्मस्तुतिकर्तॄन् वर्धयमाना अध्यात्मरमणीयसुखवतः कुरुत (स्तोत्रस्य सख्यस्य-अधिगात) स्तुतियोग्यस्य परमात्मना सह सखित्वसम्पादकस्य साधनस्य गातमस्मान् गायत-उपदिशत (वः-रत्नधेयानि सनात्-हि सन्ति) युष्माकम् अस्मदर्थं रत्नानां धातव्यानि-अन्तः प्रवेष्टव्यानि स्थापनीयानि हि सन्ति ॥८॥