Go To Mantra

सि॒ध्रा अ॑ग्ने॒ धियो॑ अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता । ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒ अह॑भिर्वा॒मम॑स्तु ॥

English Transliteration

sidhrā agne dhiyo asme sanutrīr yaṁ trāyase dama ā nityahotā | ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu ||

Pad Path

सि॒ध्राः । अ॒ग्ने॒ । धियः॑ । अ॒स्मे इति॑ । सनु॑त्रीः । यम् । त्राय॑से । दमे॑ । आ । नित्य॑ऽहोता । ऋ॒तऽवा॑ । सः । रो॒हित्ऽअ॑श्वः । पु॒रु॒ऽक्षुः । द्युऽभिः॑ । अ॒स्मै॒ । अह॑ऽभिः । वा॒मम् । अ॒स्तु॒ ॥ १०.७.४

Rigveda » Mandal:10» Sukta:7» Mantra:4 | Ashtak:7» Adhyay:6» Varga:2» Mantra:4 | Mandal:10» Anuvak:1» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) अग्रणायक परमात्मन् ! (अस्मे) हमारी (धियः सनुत्रीः-सिध्राः) स्तुतियाँ तेरे साथ या तेरी सङ्गति से तेरे समागम को प्राप्त हुई सिद्ध सफल हों (दमे नित्यहोता यम्-आ त्रायसे) हृदय-घर में समन्तात् नित्य उपास्य हुआ तू जिसकी सुरक्षा करता है-निज आश्रय देता है (सः-ऋतावा) वह सत्यवान्-जीवनयज्ञ को सफल किया हुआ, तथा (रोहिदश्वः) तेजस्वी इन्द्रियोंवाला, शुद्ध इन्द्रियोंवाला (पुरुक्षुः) बहुत अन्नादि भोगवाला हो जाता है (अस्मै) इस उपासक के लिये (द्युभिः-अहभिः-वामम्-अस्तु) प्रकाशमान दिनों के द्वारा वननीय सुख प्राप्त होता है ॥४॥
Connotation: - जो प्रतिदिन परमात्मा की स्तुति करता है, उसकी स्तुतियाँ सफल हो जाती हैं, वह तेजस्वी और अच्छे दिनोंवाला होता है ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे अग्रणायक परमात्मन् ! (अस्मे) अस्माकम् (धियः सनुत्रीः-सिध्राः) स्तुतिवाचः “वाग्वै धीः” [का० श० ४।२।४।१] त्वया सह त्वत्सङ्गत्या वा सम्भक्त्र्यस्तव समागमं प्राप्तवत्यः सिद्धाः सफलाः सन्ति, सन्तु वेति शेषः (दमे नित्यहोता यम्-आ त्रायसे) हृदये प्रतिदिनोपास्यः सन् त्वं यमुपासकं समन्तात् त्रायसे निजाश्रयं ददासि (सः-ऋतावा) स खलु सत्यवान् जीवनयज्ञं सफलं कृतवान् भवति, तथा (रोहिदश्वः) तेजस्वीन्द्रियाश्ववान् “इन्द्रियाणि हयानाहुः” [कठो० व० ३।४] (पुरुक्षुः) बह्वन्नादिभोगवान् भवति “क्षु-अन्ननाम” [निघ० २।७] (अस्मै द्युभिः-अहभिः-वामम्-अस्तु) अस्मै खलूपासकाय प्रकाशमयैर्दिनैः सह वननीयं सुखं भवतु-भवति ॥४॥